________________ बन्धननाम-संघातनामस्वरूपफलादिवर्णनम् [57 दिद्विकादिसंयोगे चत्वारि, वैक्रियसंयोगे चत्वारि, तथाऽऽहारकसंयोगे चत्वारि, तैजससंयोगे द्व, कार्मणसंयोगे चैकम् , सर्वाण्यपि मिलितानि पश्चदश / इति गाथार्थः // 105 / / .. उक्तानि बन्धनानि, तदुक्तेर्वन्धननामा 'प्युक्तमेव, साम्प्रतं संघातनामाह(पारमा०) तैजसपुद्गलानां बद्धानां वध्यमानानां च तैजसपुद्गलैः सह संबन्धकारि तैजसतैजसबन्धनम् / तैजसपुद्गलानां बद्धानां वध्यमानकार्मणपुद्गलैः सह संबन्धकारि तैजसकार्मणबन्धनम् / कार्मणपुद्गलानां बद्धानां बध्यमानानां च संबन्धहेतुः कार्मणकार्मणबन्धनं पञ्चदशमिति / एवं चत्वार्योदारिकबन्धनानि, चत्वारि वैक्रियबन्धनानि, चत्वार्याहारकबन्धनानि, इत्येतानि द्वादश, तैजसतैजस-तैजसकार्मण-कार्मणकार्मणबन्धनत्रयसमन्वितानि पञ्चदशेति / ननु यत्र बन्धनपञ्चकमेवोपादीयते तत्र कथमेतावतां ग्रहः 1, उच्यते-तदेवमवगन्तव्यम् , गृहीतगृह्यमाणानामौदारिकपुद्गलानां तैजसकार्मणपुद्गलैश्च सह संबन्धकारि औदारिकबन्धनम् / एवं वैक्रियपुद्गलाना बद्धबध्यमानानां तैजसकार्मणपुद्गलैश्च सह संबन्धकारि वैक्रियबन्धनम् / एवमाहारकपुद्गलानां बद्धबध्यमानानां तैजसकार्मणपुद्गलैश्च सह संबन्धाधायकमाहारकबन्धनम् / एवं त्रिभिदश संगृहीतानि / तथा तैजसपुद्गलानां बद्धबध्यमानानां कार्मणपुद्गलैश्च / सह संब धहेतुस्तैजसबन्धनम् / एवमनेन चतुर्थेन द्वयसंग्रहः / यदुक्तं शतकवृहच्चूर्णी बन्धनपश्च. कमणनप्रस्तावे-"गहियधिप्पमाणाणं पुग्गलाणं अन्नसरीरपुग्गलेहिं वा समं बंधो जस्स उदएणं भवइ तं पंधणनामं ' इति / पञ्चमं तु कार्मणबन्धनमिति बन्धनपश्चकपक्षेऽपि पञ्चदशसंग्रहः / इति गाथार्थः // 10 // उक्तं सप्रभेदं बन्धननाम, अधुना संघातनामाह संघायनाम महुणा, संघायइ जेण तेण संघायं / ओरालियसंघायं, वेउब्विय जाव 'कम्मइगं // 106 // (पू०) व्याख्या-'संघायनाम' इत्यनुस्वारोऽलाक्षणिकः प्राकृतत्वात् , 'अधुना' साम्प्रतमुच्यते-'संघातयति' इति मीलयति वियुतानि द्रव्याण्येकीकरोतीत्यर्थः, 'येन' कारणेन 'तेन' कारणेन संघातनाम भण्यते / तत्रौदारिकस्य संघात औदारिकसंघातः तं, जानीहीति क्रिया सर्वत्र / वैक्रियसंघातं, आहारकसंघातं, तैजससंघातं यावत्कार्यणसंघातम् , इति पञ्च संघातनामानि / इति गाथार्थः / / 106 / / औदारिकादिसंघातस्वरूपमाह१. प्युक्तम् सा० जे० / 2 "अहुणा” इत्यपि पाठः 3 “कम्मइयं” इत्यपि पाठः।