________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे 'अन्ये च' उत्तरकालभाविनो 'बध्यमानाः' गृह्यमाणा एवाहारकपुद्गलाः, 'यं तु' य एवा-ऽऽहारकशरीरनिवर्तनक्षमाः / इति गाथार्थः // 102 // आहारकपुद्गलसंबन्धद्वारेण बन्धनमाह-- तेमिं जं संबंध, 'अवरोप्पर पुग्गलाणमिह कुणइ / तं जउमरिसं जाणसु, आहारगबंधणं पढमं // 10 // (पू०) व्याख्या-तेषां' उक्तस्वरूपाहारकपुद्गलानां यत्' कर्म संबन्ध योग्यं 'परस्परं' अन्योऽन्यं बद्धबध्यमानानां 'इह' अस्मिल्लोके 'करोति' निवर्तयति 'तत्' 'जतुसदृशं' लाक्षातुल्यमुक्तन्यायेन 'जानोहि विद्धि आहारकबन्धनं 'प्रथम' आद्यम् / इति गाथार्थः // 103 // उक्तमाहारकबन्धनं प्रथमम् , द्वितीयादीन्याह एवाहारगतेयग, आहारगकम्मबंधणं तह य / आहारतेयकम्मग-बंधणनामंपि एमेव // 104 // .. (पू०) व्याख्या-एक्शब्दव्याख्या प्राग्वत् / यथाऽऽहारकपुद्गलानामाहारकपुद्गलैरेवाहारकाहारकबन्धनम् , तथाऽऽहारकतेजःपुद्गलेरेवाहारकतेजोबन्धनं द्रष्टव्यं द्वितीयम् / तथाऽऽहारककार्मणवन्धनं च तृतीयम् / आहारक तैजसकार्मणबन्धननामा-ऽप्येवमेव / यथा-ऽऽहारक बन्धने व्याख्यातं तथा-ऽत्रा-ऽपि द्रष्टव्यम् / इति गाथार्थः // 104 / / उक्तान्याहारकबन्धनानि, तेजोबन्धनान्याह(पारमा०) पाठसिद्धा एव / / 101 / / 102 // 103 / / 104 // सम्प्रति तैजसतैजस-तैजसकार्मण-कार्मणकार्मणबन्धनान्याह एवं तेथगतेयग, तेयग 'कम्मे य बंधणं तह य। 'कम्मइगंकम्मइगं, बंधणनामं पि पनरसमं // 105 / / (पू.)व्याख्या-तेजसपुद्गलानां बद्धानां प्राग्वध्यमानानामेष्यत्काले तेजःपुद्गलैरेव यः संबन्धः क्रियते ततेजस्तेजोबन्धनं प्रथमम् / तेजःपुद्गलाला बद्धबध्यमानानां कार्मणपुद्गलैश्च बन्धनं संबन्धस्तथा च तद्वितीयं तेजःकार्मणसंज्ञकं बन्धनम् / कार्मणपुद्गलानामतीतकालबद्धानां भविप्यकाले च बध्यमानानां कार्मणपुद्गलैरेव यः संवन्धस्तत्कार्मणबन्धनं पश्च दशम् / औदारिका 1 "अवरुप्पर पोग्गलाण" इत्यपि पाठः / 2 योगं जे०।३० कतेजःकार्मणः जे० / 4 बन्धनव्याख्यानं तथाऽत्रापि जे० / 5 “कम्मयगबंधणं" इत्यपि पाठः। 6 “कम्मइयंक्रम्मइयं" इत्यपि पाठः। 7 "तु पन्नरसं" इत्यपि पाठः।८० दशमम् जे /