________________ बन्धननाम्नः स्वरूपफलादिवर्णनम् / 55 . (पू०) व्याख्या-'तेषां प्रागुक्तपुद्गलानां यत् 'संबन्धं संयोगं 'परस्परं' अन्योऽन्यं पुद्गलानां 'इह' अस्मिन् संसारे 'करोति' निवर्तयति 'तत्' कर्म 'जतुसदृशं' लाक्षातुल्यं 'जानोहि अवबुध्यस्व 'वेउव्वियषन्धणं' [वैक्रियबन्धनं] 'प्रथम' आद्यम् / इति गाथार्थः / / 99 / / // 600|| ___ उक्तं वैक्रियबन्धनं, द्वितीयादीन्याह___ एवं विउवितेयग. वेउब्वियकम्मबंधणं तह य / वेउवितेयकम्मग-बंधणनामपि एमेव // 100 // (पू०) व्याख्या-एवेति लुप्तानुस्वारं पदं प्राकृतत्वात् , उक्तनीत्या / उक्तनीतिश्चेयम्-यथा क्रियपुद्गलानां बद्धवध्यमानानां वैक्रियैरेव यत्संबन्धकरणं तद् वैक्रियवैक्रियबन्धनमुच्यते / तथा वैक्रियपुद्गलानामुक्तस्वरूपाणां तैजसैर्यत्संबन्धकरणं तद्वितीयं बन्धनं वैक्रियतेजोलक्षणम् / वैक्रियपुद्गलानामेव कार्मणपुद्गलैर्यद्वन्धनं तथा च तत्तृतीयं वैक्रियकार्मणलक्षणम् / वैक्रियतेजःकार्मणबन्धननामाप्येवमेव / यथा प्रागुक्ते द्वे बन्धने द्विकसंयोगे तथेदमपि ज्ञातव्यम् / केवलं त्रिकसंयोगे चतुर्थम् इति गाथार्थः // 10 // उक्तानि वैक्रियवन्धनानि, आहारकबन्धनान्याह(पारमा०) चतस्रोऽपि स्फुटार्थाः / / 97 / / / / 98|| / / 99 // // 10 // आहारकबन्धनचतुष्टयमाह आहारगआहारग, 'आहारगतेयबंधणं बीयं / आहारकम्मबंधण, तिण्हवि जोए चउत्थं तु // 101 // (पू०) व्याख्या-आहारकपुद्गलानामाहारकपुद्गलैरेव यः संबन्धः स प्रथमं बन्धनम् / आहारकपुद्गलानामेव तैजसैबन्धनं संबन्धो द्वितीयम् / आहारकपुद्गलानामेव पुद्गलैर्बन्धनं संयोगस्तृतीयम् / त्रयाणामपि योगे आहारकतैजसकार्मणसंबन्धे चतुर्थम् / इति गाथार्थः 101 // आहारकबन्धनकारणमाह आहारपुग्गला इह, आहारत्तेण जे निबद्धा उ। अन्ने य बज्झमाणा, आहारगपुग्गला जेउ // 102 // (पू०) व्याख्या-'आहारपुद्गलाः' आहारकशरीरप्रायोग्याः 'इह' अस्मिन् संसारे 'आहारस्वेन ये निय हास्तु' आहारकभावेन ये, क्व 1 प्राक् शरीरग्रहणकाले जीवेन गृहीता एव / 1 "बद्धा जीवेण आहारतेज०" इत्यपि पाठः /