________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे नाना कार्मणपुद्गलैः यः संबन्धः, तथा च ततृतीयम् / उदारतेजःकर्मपुद्गलानां बन्धनं संयोजन वन्धननाम एतदप्येवमेव, यथौदारिकपुद्गलानां द्विकसंयोगे तेजःप्रभृतिभिः संयोजक कमौंदारिकादिबन्धनं नाम, तथौदारिकतेजःकार्मणपुद्गलानां बद्धबध्यमानानामौदारिकतेजःकार्मणपुद्गलैर्यत्संयोजकं कर्म तद्भन्धनं नाम चतुर्थम् / इति गाथार्थः // 96 // उक्तान्यौदारिकादिबन्धनानि, साम्प्रतं वैक्रियबन्धनान्याह (पारमा०) एवं ये औदारिकपुद्गला बद्धाः, ये च तैजसपुद्गला बध्यमानाः, तेषां यत्कर्म संबन्धं विदधाति तदौदारिकतैजसनाम / एवमौदारिकपुद्गला बद्धाः कार्मणपुद्गलाश्च बध्यमानाः, तेषां संबन्धविधायकं यत्कर्म तदौदारिककार्मणनाम / एवमौदारिकपुद्गला बद्धाः, तैजसकार्मणपुद्गलाश्च बध्यमानाः, तेषां संबन्धकारकं कर्म औदारिकतैजसकार्मणनाम / इति गाथाचतुष्टयार्थः // 16 // वैक्रियबन्धनचतुष्टयमाह वेउब्धियवेउब्बिय, वेउब्वियतेयबंधणं बीयं / वेउब्विकम्मबंधण, तिण्हवि जोए चउत्थं तु // 9 // (पू.) व्याख्या-वे क्रियाणां पुद्गलानां वैक्रियैरेव संबन्धः प्रथमं बन्धनम् / वैक्रियपुद्गलानामेव तेजःपुद्गलैर्यत्संबन्धस्तद् द्वितीयं बन्धनम् / वैक्रियपुद्गलानामेव कार्मणपुंगललैर्यत्संबन्धक कर्म तत्तृतीयं बन्धनम् / त्रयाणामपि वैक्रियतेजःकार्मणपुद्गलानां 'योगे एव' संबन्धे एव चतुर्थम् / तुशब्दस्यैवकारार्थत्वात् / इति गाथार्थः // 97 // उक्तवैक्रियबन्धनान्येव व्यक्तीकुर्वन्नाह वेउविपुग्गला इह, बद्धा जीवेण जे विउव्वित्ते / अन्ने य बज्झमाणा, वेउब्बियपुग्गला जे उ // 98 // (पू०) व्याख्या-'क्रियपुद्गला' वैक्रियशरीरनिर्वर्तनप्रायोग्याः ‘इह' लोके 'पद्धाः' गृहीताः 'जीवेन' प्राणिना 'ये' पुद्गलाः 'विउव्वित्ते' वैक्रियभावे, अन्ये च 'बध्यमानाः' आगामिकालभाविनो वैक्रियपुद्गला ये तु इति गाथार्थः / / 9 / / वैक्रियपुद्गलबन्धनमभिधाय साम्प्रतं संबन्धद्वारेण बन्धनमाह तेसिं जं संबन्धं, 'अवरोप्परपुग्गलाणमिह कुणइ / तं जउसरिसं जाणसु, वेउब्वियबंधणं पढमं // 19 // 1 नां कर्मपुद्गलैः जे० / 2 अवरुपर इत्यपि पाठः।