________________ अङ्गोपाङ्ग-बन्धन-स्वरूपफलादिवर्णनम् ओरालपुग्गला इह, बद्धा जीवेण जे उरालत्ते / अन्न 'उ बज्झमाणा, ओरालियपुग्गला जे 'य // 14 // (पू०)व्याख्या-उदाराश्च ते पुद्गलाश्च ते उदारपुद्गलाः 'इह' अस्मिल्लोके 'षडाः' गृहीता 'जीवेन' प्राणिना, 'ये' पुद्गलाः क ? 'उदारत्वे' उदारभावे / किमुक्तं भवति -यैः पुद्गलैरुत्तरकालमौदारिकं शरीरं निवर्तयति जीवः ते जीवेनात्मसात्कृता 'अन्ये च वध्यमानाः' वर्तमा. नकालभाविन एष्यत्कालभाविनश्चौदारिकपुद्गला 'ये तु' य एव बद्धा बध्यमानाश्च त एवौदारिकबन्धनकारणम् / इति गाथार्थः / / 94 // औदारिकपुद्गलसंबन्धेन बन्धनमाह (पारमा०) औदारिकपुद्गला इह संसारे जीवेन ये औदारिकत्वेन बद्धाः, तथाऽन्ये पुनर्वध्यमाना औदारिकपुद्गला ये च // 14 // तेसि जं संबंधं,'B अवरोप्पपुरग्गलाणमिह कुणइ। तं जउसरिसं जाणसु, ओरालियबंधणं पढमं // 15 // ___ (पू०) व्याख्या-'तेषां' "प्राग्बद्धबध्यमानपुद्गलानां 'यत्' कर्म 'संबन्ध' घटना 'परस्परं' अन्योऽन्यं 'पुद्गलानां' उक्तस्वरूपाणां 'इह' लोके 'करोति' निवर्तयति 'तत्' कर्म 'जतुसदृशं' लाक्षातुल्यम् / यथाहि-लाक्षया काहलादिषु दण्डिकाद्यवयवानां पृथग्भूतानां संबन्धः संयोगः क्रियते, एवमनेनापि कर्मणां पृथग्भूतानां बद्धबध्यमानपुद्गलानां संबन्धः संयोगः क्रियते इति लाक्षयोपमीयते / 'जानीहि विद्धि औदारिकबन्धनं 'प्रथम' आद्यम् / इति गाथार्थः // 9 // .. उक्तं प्रथमबन्धनम् , द्वितीयादीन्याह (पारमा) तेषां बद्धबध्यमानानां पुद्गलानां यत्कर्मान्योऽन्यं संबन्धं करोति तत् 'जतुसदृश' लाक्षातुल्यमौदारिकबन्धनं प्रथमं जानीहि / / 95|| शेषत्रयातिदेशमाह एवोरालियतेयग, ओरालियकम्मबंधणं तह य / ओरालतेयकम्मग-बंधणनामपि एमेव // 96 // (पू०) व्याख्या-'एवं' उक्तप्रकारेण, मकारस्य प्राकृतत्वाल्लोपः, यथौदारिक पुद्गलानां बद्धबध्यमानानां संयोजकं कर्म औदारिकबन्धनमुच्यते, तथौदारिकपुद्गलानां बद्धबध्यमानानां तैजसपुद्गलैर्यत्संबन्धकरणं तदौदारि'कतैजसबन्धनं द्वितीयम् / औदारिकपुद्गलानामेव बद्धबध्यमा .. १"य" इत्यपि पाटः। 2 “उ” इत्यपि पाठः। एतत्पाठद्वयानुसारेण व्याख्याकारेण व्याख्यातम् / 2 Bअवरूपर "इत्यपि पाठः।३ प्रागुक्तबध्यमान० जे०।४ पुद्गलबद्धबध्यमानसंयो० जे० / ५०क तेजोबन्धनं जे०।