________________ 52 ] कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे ___(पू०) व्याख्या-शिरो=मस्तकमुरो वक्षः, उदरं पोट्ट, पृष्टिः प्रतीता, द्वौ बाहू प्रतीतो. 'ऊरु च' ऊरू जर्छ, अष्टावङ्गानि / अङ्गुलिरादिर्येषां तान्यगुल्यादीन्युपाङ्गानि, अङ्गोपागानि, 'शेषाणि' उत्तव्यतिरिक्तानि / इति गाथार्थः / / 91 // . यथा येषामङ्गोपाङ्गानि भवन्ति येषां च न भवन्ति तत्प्रदर्शयन्नाह___ (पारमा०) शीर्ष उरः उदरं पष्ठिद्वौं बाहू ऊरके च, अष्टावङ्गानि, 'अगुल्यादीनि' अङ्गुलिभ्र जिह्वादीन्युपाङ्गानि / 'शेषाणि' तत्प्रत्यवयवभूतानि अङ्गुलिपर्व रेखादीनि अङ्गोपाङ्गानि / इति गाथार्थः // 91 // . सम्प्रति त्रैविध्यमाह आइल्लाणं तिण्ह, हुति सरीराण अंगुवंगाई। णो तेयगकम्माणं, बंधणनामं इमं होइ // 92 // . (पू०) व्याख्या-'आद्यानां' औदारिकवैक्रियाहारकाणां 'तिण्हं त्रयाणां 'भवन्ति' जायन्ते शरीराणामङ्गोपाङ्गानि / 'नौ' नैव तैजसकार्मणयोः, तत्कारणाभावात् / बन्धननाम पुनः ''इदं वक्ष्यमाणलक्षणं भवति / इति गाथार्थः / / 92 // . उक्तमङ्गोपाङ्गनाम, बन्धननाम प्राह (पारमा०) 'आद्यानां' औदारिकवैक्रियाहारकाणां त्रयाणां' शरीरणामङ्गोपाङ्गानि भवन्ति / इदमुक्तं भवति-अङ्गोपाङ्गनाम विधा, औदारिकाङ्गोपाङ्गनामवैक्रियाङ्गोपाङ्गनामआहारकाङ्गोपाङ्गनामभेदात् / तैजसकार्मणयोस्तु नाङ्गोपाङ्गनाम, जीवप्रदेशसंस्थानानुरोधित्वादिति / बन्धननाम प्रस्तौति-बन्धननाम 'इदं वक्ष्यमाणं पञ्चदशप्रकारं भवति / इति गाथार्थः / / 12 / / सम्प्रत्यौदारिकबन्धनचतुष्टयमाह ओरालियओरालिय, ओरालियतेयबंधणं बीयं / ' ओरालकम्मबंधण, तिण्हवि जोगे चउत्थं तु // 13 // (पू०)व्याख्या-औदारिकौदारिकबन्धनं प्रथमम् / 'औदारिकपुद्गलानामौदारिकपुद्गलैरेव संबन्धः प्रथमं बन्धनम् / औदारिकाणामेव पुद्गलानां तेजःपुद्गलैर्यः संबन्धो द्वितीयवन्धनमेतत् / औदारिकपुद्गलानामेव कार्मणपुद्गलैर्यत्संबन्धकरणं तत्ततीयम् , त्रयाणामपि 'योगे' संबन्धे चतुर्थ तु बन्धनं, औदारिकतैजसकार्मणपुद्गलानां पुन मीलने चतुर्थ बन्धनम् / इति गाथार्थः // 63 / / औदारिकादिबन्धनस्वरूपमाह (पारमा०) बध्यतेऽनेनेति बन्धनम् / औदारिकस्यौदारिकेन सह बन्धनं औदारिकौदारिकबन्धनम् , अर्थादाद्यम् / एवमौदारिकतैजसबन्धनं द्वितीयम् / औदारिककार्मणबन्धनमर्थात्तृतीयम् / त्रयाणामप्यौदारिकतैजसकार्मणानां योगे पुनश्चतुर्थम् // 93 // एतदेव व्याचष्टे 1 इमं जे / 2 औदारिकाणां पुद्ग० जे० / 3 मीर्लके जे० /