________________ शरीरा-ऽङ्गोपाङ्ग-स्वरूपफलादिवर्णनम् ओरालियं सरीरं. उदएणं होइ जस्स कम्मस्स / तं ओरालियनाम, सेससरीरा वि एमेव // 89 // (पू०) व्याख्या-औदारिकं शरीरं प्रतिपादितम्-'उदयेन' विपाकेन यस्य भवति कर्मणम्तदीदारिकशरीरनाम / 'शेषशरोराण्यपि' वैक्रियादिशरीराण्यप्येवमेव / यथौदारिकं शरीरमुदयेन यस्य कर्मणो भवति तदौदारिकनाम, तथा वैक्रियाशरीराद्यपि यस्य कर्मण उदयेन भवति तद्वैक्रियादिशरीरनाम / एवमेव शब्दार्थः / इति गाथार्थः / / 89 // उक्तानि शरीराणि, अङ्गोपाङ्गान्याह (पारमा०) औदारिकं शरीरं यस्य कर्मण उदयेन भवति तदौदारिकनाम / इदमुक्तं भवति-यदुदयवशादौदारिकशरीरप्रायोग्यान पुद्गलानादाय औदारिकशरीररूपतया परिणमय्य च जीवः स्वप्रदेशैः सहान्योऽन्यानुगमरूपतया संवन्धयति तदौदारिकनाम / शेषशरीराण्यप्येवमेवेति शेषशरीरनामस्वपीयं भावना कार्या / इति गाथार्थः / / 89 // अङ्गोपाङ्गनामाह अंगोवंगविभागो, 'उदएणं होइ जस्स कम्मस्स / तं अंगवंगनामं, तस्स विवागो इमो होइ // 10 // ___(पू०) व्याख्या-अङ्गोपाङ्गविभागो विशेषः 'उदयेन' विपाकेन यस्य भवति कर्मणस्तदङ्गोपाङ्गनामोच्यते / तस्य' अङ्गोपाङ्गनाम्नः 'विपाकः' अनुभवः 'अयं' (एषः) वक्ष्यमाणलक्षणों भवति / इति गाथार्थः // 10 // (पारमा०) अङ्गानि च उपाङ्गनि च अङ्गोपाङ्गानि, अङ्गोपाङ्गनि च अङ्गोपाङ्गानि च अङ्गोपाङ्गानि, 'स्यादावसंख्येयः' (सि० 3-1-119) इत्येकशेषः, तेषां विभागः पृथक्त्वं यस्य कर्मण उदयेन भवति तदङ्गोपाङ्गनाम, तस्य विपाक एष पृथक्त्वभवनलक्षण उक्तरूपो भवति / इति गाथार्थः / / 90 // अधुनाऽङ्गानि उपाङ्गानि अङ्गोपाङ्गानि च यान्युच्यन्ते तान्याह सीसमुरोयरपिट्ठी, दो बाहू ऊरुआ य अटुंगा। अंगुलिमाइ उवंगाई, अंगोवंगाई सेसाई // 11 // 1 "उदएणं जस्स होइ कम्मस्स" इत्यपि पाठः जे /