________________ 50 / कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे उद्यादेकेन्द्रियो भवति सा एकेन्द्रियजातिरित्युक्तम् , पूर्व तु एकद्वित्रिचतुष्पञ्चेन्द्रियजातयः क्षायोपशमिके भावे भवन्तीति तत्कथमेतत् ? इति, उच्यते-कारणकारणस्यापि कारणत्वविवक्षया क्षायोपशमिकभावे जातीनां भणनम् / तथाहि-क्षायोपशमिकभावेनेन्द्रियं जन्यते, तन्निमित्ता च व्यपदेशहेतुरौदयिकी जातिरिति, तर्हि जातिनाम किमर्थम् , एकेन्द्रियाद्यावरणक्षयोपशमे एकेन्द्रियादिव्यपदेशं प्राप्स्यति ? इति सत्यम् , एकेन्द्रियावरणक्षयोपशमे एकेन्द्रयोऽयमिति व्यपदेशः स्यात् , परं नियमो न स्यात् , यदुत स्पर्शनेन्द्रियावरणक्षयोपशम एवैकेन्द्रियः / स्पर्शनरसनावरगक्षयोपशम एव द्वीन्द्रियः / स्पर्शनरसनघ्राणावरणक्षयोपशम एव त्रीन्द्रियः / स्पर्शनरसनघाणचक्षुरावरणक्षयोपशम एव चतुरिन्द्रियः / स्पर्शनरसघ्राणचक्षुःश्रोत्रावरणक्षयोपशमे तु पञ्चेन्द्रियोऽयम् / इति गाथार्थः // 87 // शरीराण्याह ओरालियवेउब्बिय-आहारगतेयकम्मए 'चेव / . एवं पंच सरीरा. तेसि विवागो इमो होइ // 8 // (पू०) व्याख्या-औदारिकं च वैक्रियं चाहारकं च तैजसं च कार्मणं चेति द्वन्द्वः, औदारिकबैंक्रियाहारकतैजसकार्मणानि च एवं' उक्तनीत्या पञ्चैव शरीराणि भवन्तीति शेषः / तेषां च' शरीराणां च / विपाक' अनुभवं 'इमं वक्ष्यमाणलक्षणं 'शृणत' आकर्णयत यूयम् / इति गाथार्थः // 8 // औदारिकस्वरूपमाह (पारमा०) औदारिकवैक्रियाहारकतैजसकार्मणानि चैव / तत्रोदारं प्रधान, प्राधान्यं चास्य तीर्थकरगणधरापेक्षया / ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात् / उदारमेवौदारिक, विनयादित्वादिकणि / विविधा क्रिया विक्रिया, तस्यां भवं वैक्रियम् / तथाहि-तदेकं भूत्वाऽनेक भवति / अणु भूत्वा महद्भवति / खचरं भूत्वा भूमिचरं भवति / अदृश्यं भूत्वा दृश्यं भवति / अनेकं भूत्वा एकम् , इत्यादि / आहियते निवर्त्यते चतुर्दशपूर्वविदा तीर्थकरऋद्धिस्फातिदर्शनादिकप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादित्याहारकम् , तच्च वैक्रियापेक्षयाऽत्यन्तशुभम् / तेजसा तेजःपुद्गलैनिवृत्तं तैजसं यदाहारपरिणमनस्य तेजोलेश्यानिर्गमनस्य च हेतुः / कर्मणो विकारः कार्मणम् / कर्मपरमाणव आत्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः कार्मणशरीरम् / इदं च जन्तोर्गत्यन्तरसंक्रान्तौ साधकतमं करणम् / 'एवं' उक्तप्रकारेण पश्च शरीराणि, तेषां विपाक एव वक्ष्यमाणो भवति / इति गाथार्थः // 88 // "1 व्याख्याकारेण तु “चेवं / पंचेव सरीरा तेसिं च विवागं इमं सुणह" इति पाठानुसारेण व्याख्यातम् / 2 विपाकः अनुभवः अयं वक्ष्यमाणलक्षणः शणुत जे०।।