________________ 49 ] गति-जातिस्वरूपफलादिवर्णनम् यदुदयान्मनुष्यः सा मनुष्यगतिः / यदुदयाच्च देवः सा देवगतिरिति / ननु भवद्भिरित्युक्तं यदुताह तीर्थकुन् , इदं तु सूत्रकृता स्वयमेवोक्तमिति, नैवम् , तस्यायमाशयः-सर्वोऽपि जिनागमोऽर्थतो जिनप्रणीतः, ततस्तदागमोद्भुतत्वादिदमपि तदुक्तमेवेत्यदोषः / इति गाथार्थः / / 8 / / जातिनामाह... इगदुगतिगचउरिंदिय-जाई पंचिंदियाण पंच मिया / . खयउवसमिए भावे, हुति हु एया जओ आह // 86 // (पू०) व्याख्या-एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातिः / जातिशब्दस्य प्रत्येक संबन्धः / चतस्रो जातयः / पञ्चेन्द्रियाणां पञ्चमिका जातिरुक्तलक्षणा / पञ्चप्रकाराऽपीयं कस्मिन भावे भवति?, इत्याह-शायोपशमिकभावे। क्षयश्च केषांचित्कर्मणाम् , उपशमश्च कर्मणामेव क्षयोपशमः, तेन निवृत्तः ठक् (नेन निवृत्तं पा० 5-1.71) क्षायोपशमिकः, आदिवृद्धीकादेशी, भावशब्दस्य विशेषणम् / क्षायोपशमिक एव भावे "भवन्ति' जायन्ते 'भेदाः' विशेषाः / . हुशब्दस्यैवकारार्थत्वात् / यत आह सूत्रकारः / इति गाथार्थः // 86 // (पारमा०) एकेन्द्रियादीनामेकेन्द्रियत्वादिसमानपरिणतिलक्षणमेकेन्द्रियादिशब्दव्यपदेशभाक् यत् सामान्यं सा जातिः एकद्वित्रिचतुरिन्द्रियजातिः, एकेन्द्रियजातिः द्वीन्द्रियजातिः, श्रीन्द्रियजातिः, चतुरिन्द्रयजातिः / जातिरित्यस्यात्रापि योगात्पञ्चेन्द्रियाणां जातिः पञ्चमिका / क्षायोपशमिके भावे भवन्त्येताः / यत आह-क्षायोपशमिकानोन्द्रियाणि तन्निमिता च जातिः इति गाथार्थः // 86 // ... एगिदिएसु जीवो, जस्सिह उदएण 'होइ कम्मस्स। सा एगिदियजाई, जाईओ एव सेसा उ // 7 // (पू०) व्याख्या-एकमिन्द्रियं स्पर्शनलक्षणं येषां ते एकेन्द्रियास्तेषु च, जीवतीति जीवो यस्य कर्मणाः "उदयेन" प्रादुर्भावेन 'याति' गच्छति एकेन्द्रियेषु सा 'एकेन्द्रियजातिः' एकेन्द्रियनाम तत् / "जातयः" द्वीन्द्रियादिजातयः एवेति लुप्तानुस्वारं पदं प्राकृतत्वात् / एवं शेषा अपि द्वित्रिचतुष्पञ्चेन्द्रियलक्षणा यदुदयेन द्वीन्द्रियादिपूत्पद्यते सा द्वीन्द्रियादिजातिरुच्यते / इति गाथार्थः // 87 // उक्ता एकेन्द्रियादिजातिः, शरीराण्याह (पारमा०) 'एकेन्द्रियेषु' पृथिव्यादिषु 'जीव:' प्राणी 'यस्य' एकेन्द्रियव्यपदेशहेतोः कर्मण इहोदयेन भवति, सा एकेन्द्रियजातिः / जातय एवं शेषा अपि / ननु इह यस्य कर्मण - 1 विहा इत्यपि पाठः / 2 "भेया इति व्याख्याकारः।३ व्याख्याकारेण तु"जाइ" इति पाठानुसारेण व्याख्यातम् / 4 व्याख्याकारेण तु "सेसावि” इति पाठानुसारेण व्याख्यातम् /