________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे पश्चानां सप्तपष्टिमध्ये प्रक्षेपात् / एतेषां तु पुनः सर्वेषां 'चतुर्विध्योक्तानां 'विपाक' अनुभवरूपं "वुच्छामि' वक्ष्यामि, 'यथानुपूर्ताः' यथापरिपाट्या / इति गाथार्थः / / 83|| नारकादिगतिसंख्या "यतश्चैवं भवति तदाह (पारमा०) सर्वैरपि क्षिप्तैर्बन्धनभेदेरिति, अयं भावः-एषां मध्यादौदारिकादिबन्धनपञ्चकस्य त्रिनवतिपक्षोपात्तस्य शेषैर्दशभिरपि क्षिप्तस्व्युत्तरं शतं भवति नाम्नः प्रकृतीनामिति गम्यम्। विपाकभणनं प्रस्तौति- एतेषां' द्वित्वारिंशत्सप्तपष्टिविनवतित्र्युत्तरशतानां पुनर्विपाकं वक्ष्ये 'यथानुपूा क्रमानतिक्रमेण / इति सपादगाथार्थः / / 83|| प्रतिज्ञातमाह नारयतिरियनरामर-गइभेया चउविहा गई होइ।... एमा खलु ओदइए. होइ हु भावे जओ आह / / 84 // (पू०) व्याख्या-नारकतिर्यङ्नरामरगतिभेदाद्विशेषाच्चतुर्विधा गतिर्भवति / 'एषा' प्रागुक्ता 'खलु' निश्चयेन, कस्मिन भावे भवति ?, इति आह-औदायिके भावे भवति, न क्षायिकादौ / हुशब्दस्यैवकारार्थत्वात् / यत आह सूत्रकार एव / इति गाथार्थः / / 84|| नरकगतिस्वरूपमाह (पारमा०) नारकतिर्यनरामरगतिभेदाच्चतुर्विधा गम्यते प्राप्यते तथाविधकर्मसचिरैरिति गतिर्भवति / एषा 'खलु' निश्चितमौदयिके भावे भवति / यत आहेतिपदमुदारोक्या कर्तृ निर्देशमन्तरेणोपात्तं यत्र कुत्रचिद्विश्रान्त्यभावात्तीर्थकृतमाक्षिपति / इति गाथार्थः // 84 // किमाह ? इति चेदुच्यते जीए उदएण जीवो, नेरइओ होइ नरयपुढवीए / सा भणिया नरयगई, सेसगईओ वि एमेव // 65 // . (पू०) व्याख्या-'यस्याः' नरकगतेः 'उदयेन' प्रादुर्भावेन 'जोवः'प्राणी नारकिको ‘भवति' संपद्यते, क्व ? 'नरक पृथ्व्यां ' प्रतीतायाम् / सा 'मणिता' प्रतिपादिता नरकगतिः शेषगतयोऽपि' तिर्यङ्नरामरलक्षणा अपि 'एवमेव' उक्तन्यायेन / इति गाथार्थः / / 8 / / उक्ता गतिः, एकेन्द्रियादिजातिमाह-- (पारमा०) यस्या गतेरुदयेन जीवो नैरयिको भवति नरकपृथिव्यां, सा भणिता नरकगतिः शेषगतयोऽप्येवमेवेति / अयमाशयः-यस्या उदयेन तिर्यङ् भवति सा तिर्यग्गतिः / 1 चानुपूर्योक्तानां वि• जे० 2 वोच्छामि जे० // 3 यतश्चेयं म० जे० / 4 "पृथिव्यां० जे० /