________________ ' बन्धयोग्यसर्वप्रकृतिसङ्ख्या तथा नाम्नस्त्रिनतिरव्युत्तरशतश्च प्रकृतिभेदाः [47 ___ (पू०) व्याख्या-बन्धनं पूर्वोक्तं तस्य भेदा विशेषाः पश्च, 'तुः' पुनः, संधाता अपि च 'भवन्ति' जायन्ते पञ्चैवोक्तलक्षणाः / पञ्च वर्णाः प्रतीताः / द्वौ गन्धो सुगन्धदुर्गन्धौ / पञ्च ग्या व्याख्यातार्थाः / अष्टौ स्पर्शा वक्ष्यमाणाः / इति गाथार्थः // 8 // सर्वसंख्याप्रक्षेपार्थमाह (पारमा०) औदारिकादिभेदाद्वन्धनभेदाः पञ्च / संघाता अपि पञ्चैव भवन्ति, औदारिकादिभेदादेवेत्येताभ्यां दश / पश्च वर्णाः, कृष्णादिभेदात् / द्वौ गन्धौ सुरभिदुरभिश्च / पञ्च रसास्तिक्ताद्याः / अष्ट स्पर्शा गुर्वाद्याः / एवमेता विंशतिः प्रकृतयः / एतासां च मध्याच्चतुष्कं. वर्णगन्धरसस्पर्शानां चतुर्णा सप्तपष्टि पक्षे सामान्यतो गृहीतानामत्र विशेषोपादानादपगतानां. स्थानपूरणे गतमिति शेषाः षोडश // 1 // दस सोलस छब्बीसा. एया मेलेहिं सत्तसट्ठीए। तेणउई होइ तओ, बंधणभेया उ पन्नरस // 2 // (पू०) व्याख्या-दश बन्धनसंघातभेदाः, षोडश वर्णगन्धरसस्पर्शाः, सर्वेऽपि मिलिताः षडपिं. शतिः' षड्भिरधिका विंशतिः षडूविंशतिः / ननु कथमेते वर्णादयः षोडश भवन्ति गण्यमाना विंशतिः 1 इति उच्यते-सप्तषष्टिभेदेषु 'वर्णादीनां चतुष्क' अनेनावयवेन चत्वारो भेदाः प्रतिपादिताः, तेष्वपनीतेषु वर्णगन्धरसस्पर्शविंशतिभेदानां मध्यात्षोडश एव भवन्ति, अत एतान् 'मीलय' एकीकुरु सप्तषष्टयां, त्रिभिरधिका नवतिस्त्रिनवतिः 'भवति' जायते / तत उक्ता त्रिनवतिः, बन्धभेदास्तु पुनः पञ्चदश वक्ष्यमाणलक्षणाः / इति गाथार्थः॥२॥ ग्रं० 535 / / .. व्युत्तरशतमाह (पारमा०) तथा च दश पूर्वाद्धोक्ताः, एताश्च षोडश, उभयमीलने च षड्विंशतिप्रकृतयः, एता मीलय सप्तषष्टी, ततस्त्रिनवतिर्भवति / इति पादोनगाथाद्वयार्थः / सम्प्रति व्युत्तरशतमाहबन्धनभेदाः पुनः पञ्चदश परस्परसंयोगाद्भवति / / 2 / / ... सव्वेहि वि छूढेहिं, तिगअहिगसयं तु होइ नामस्स। एएसिं तु विवागं, वृच्छामि अहाणुपुवीए // 83 // ___(पू०) व्याख्या-सर्वैरपि क्षिप्तैः सप्तपष्टिमध्ये षड्विंशतिभित्रिनवतिमध्ये बन्धनभेदैदशभिः प्रवेशितैत्रिकेनाधिकं शतं त्रिकाधिकशतं, 'न न्यूनाधिकमित्यर्थः, नाम्नः कर्मणः / ननु बन्धनभेदाः पञ्चदश, तत्प्रतिक्षेपे त्रिनवतौ कथं व्युत्तरशतम् 1 इति, उच्यते-बन्धनभेदा दशैव, .1 न तूनाधिकं जे /