________________ 46 ] कर्मविगकाख्ये प्रथमे कर्मग्रन्थे "भवन्ति' जायन्ते 'प्रकृतयः' उत्तरविशेषाः 'सम्यग्मिश्राभ्यां विना' सम्यक्त्वसम्यग्मिथ्यात्वाभ्यां विना त्रिभिरधिका पञ्चाशत्रिपञ्चाशत् 'शेषकर्मणां' ज्ञानावरणाद्यन्तरायपर्यन्तानाम् / इति गाथार्थः // 79 // उक्ताः सप्तषष्टिभेदाः, इदानीमेककालं जीवस्य प्रकृतिबन्धसंख्यामाह (पारमा०) तीर्थकरेण च सहिता 67 सप्तषष्टिः, एवं भवन्ति प्रकृतयः / सम्प्रति सप्तष प्टेर्वन्धोपयोगित्वं प्रतिपिपादयिषुर्वन्धप्रायोग्याः शेषकर्मप्रकृतीरपि प्रसङ्गत आह-सम्यग्मिश्राभ्यां विना त्रिपश्चाशच्छेषकर्मणाम् / तथाहि-ज्ञानावरणपञ्चकदर्शनावरणनवकसंहतौ चतुर्दश वेदनीयद्विकसंकलने षोडश / सम्यक्त्वमिश्रे बन्धे नायात इति तद्वर्जितमोहनीयषड्विंशतिक्षेपे द्विचत्वारिंशत् / आयुषश्चतुष्टयमीलने पट्चत्वारिंशत् / गोत्रद्वयसंहतावष्टचत्वारिंशत् / अन्तरायपश्चक-.. युक्तौ यथोक्ता त्रिपश्चाशत् / इति सप्तषष्टिप्रतिपादकगाथाचतुष्टयस्यार्थः // 79 // एतन्मीलने यद्भवति तदाह___ एवं विसुत्तरसयं, 'बंधे पयडीण होइ नायव्वं / बंधणसंघाया वि य, सरीरगहणेण इह गहिया // 8 // (पू०) व्याख्या 'एवं' उक्तनीत्या 'विंशत्युत्तरं शतं' विंशतिरुत्तरा यस्मिन् तविंशत्युत्तरं तश्च तत् शतं च विंशत्युत्तरशतं बन्धनरूपाः प्रकृतयो बन्धनप्रकृतयः तासां भवति ज्ञातव्यम् एकस्य जीवस्य सामान्ये नैकदा यद्युत्कृष्टो बन्धो भवति तदा विंशत्युत्तरशतिको भवति नाधिको बन्धः / ननु सप्तषष्टिभेदमध्ये बन्धनसंघातभेदौ नोक्तौ तयोर्ग्रहणम् ?, इत्याह-बन्धनसंघातावपि च शरीरग्रहणेन 'इह' पक्षान्तरगृहीतौ तदन्तर्गतत्वात्तयोः / इति गाथार्थः // 8 // उक्ता सप्तषष्टिः, इदानीं त्रिनवतिमाह (पारमा०) एवं सप्तषष्टेखिपश्चाशतश्च मीलने विंशत्युत्तरं शतं प्रकृतीनां बन्धे ज्ञातव्यं भवति / ननु सप्तषष्टिभेदमध्ये बन्धनसंघातौ नोक्तौ तत्कथं तयोर्ग्रहणम् ?, इत्याह-बन्धनसंघातावपि शरीरग्रहणेनेह सप्तषष्टिपक्षे गृहीतौ / औदारिकशरीरनामग्रहणेन औदारिकबन्धनसंघातनाम्नी, वैक्रियशरीरनामग्रहणेन वैक्रियबन्धनसंघातनाम्नी, इत्यादि / इति गाथार्थः // 8 // उक्तं प्रसङ्गागतं बन्धोपयोगि विंशत्युत्तरं प्रकृतिशतं, सम्प्रति त्रिनवतिमाह बंधणभेया पंच उ, संघाया वि य हवंति पंचेव / पण वण्णा दो गंधा, पंच रसा अट्ट फासा य // 81 // 1 व्याख्याकारेण तु "बन्धणपयडीण" इति पाठानुसारेण व्याख्यातम् /