________________ नाम्नः सप्तषष्टिप्रकृतिभेदाः छस्संघयणा जाणसु. संठाणावि य हवंति छच्चेव / वण्णाईण चउक, अगुरुलहुवघायपरघायं 77 // (पू०) व्याख्या-षट् संहननानि 'जानीहि विद्धि वर्षभनाराच 1 ऋषभनाराच 2 नाराचा ३ऽर्द्धनाराच 4 कीलिका 5 छेवट्ठ (सेवात) 6 रूपाणि / संस्थानान्यपि च तथैव षडेव यथा संहननानि,-समचतुरस्र 1 न्यग्रोधमण्डल२ सादि 3 वामन 4 कुब्ज 5 हुण्ड 6 रूपाणि / वर्ण आदियषां ते वोदयः तेषां, चतुष्कं वर्ण 1 गन्ध 2 रस 3 स्पर्श 4 लक्षणम् / "अगुरु च लघु च अगुरुलघुनाम भवति ज्ञातव्यम् / उपघातश्च पराघातचोपघातपराघातं भवति ज्ञानव्यम् / इति गाथार्थः // 77 // उक्ताः संहननादयः आनुपूर्व्यादीनाह (पारमा०) पट संहननानि 23 वज्रर्षभनाराचादीनि जानीहि / संस्थानान्यपि च 29 समचतुरस्रादीनि भवन्ति पडेव वर्णादीनां वर्णगन्धरसस्पर्शानां चतुष्कं 33, अवान्तरभेदाविवक्षणात् / अगुरुलघु 34 उपधातं 35 परघातम् 36 // 77 // अणुपुब्बी चउभेया, ऊसासं आयवं च उज्जोयं / सुहअसुहविहायगई, तसाइवीसं च निम्माणं // 7 // (पू०) व्याख्या-'अणुपुवाति' आनुपूर्वी 'चतुर्भेदा' चतुष्प्रकारा नरकानुपूर्वी 1 तिर्यगानुपूर्वी 2 मनुष्यानुपूर्वी 3 देवानुपूर्वी 4 लक्षणा 'उच्छ्वासं' उच्छ्वासनाम, 'आतपंच' आतपनाम, 'उद्योत' उद्द्योतनाम, शुभाशुभविहायोगती, शुभा प्रशस्ता, अशुभा अप्रशस्ता / वसनाम 'आदौ येषां तत्त्रसादिविंशतिः, निर्माणमिति / आनुपूर्वीत्याकारो ह्रस्वः सूत्रे गाथाभङ्गभयात् प्राकृतत्वाच्च / इति गाथार्थः // 7 // उक्ता आनुपूर्व्यादयः, तीर्थकरयुक्तां सप्तषष्टियोजनामाह (पारमा०) आनुपूर्वी 40 चतुर्भेदा, नरकानुपूर्व्यादिभेदात् / उच्छ्वासं 41 आतपं 42 उद्योतं 43 शुभाशुभविहायोगतिः 45 त्रसादिविंशतिश्च प्राङ् निरूपिता 65 निर्माणम् 66 // 78 // “तित्थयरेण य सहिया, सत्तट्ठी एव हुति पयडीओ। सम्मामीसेहि विणा, तेवन्ना सेसकम्माणं // 79 // __ (पू०) व्याख्या-तीर्थकरणशीलं तीर्थकरं, तल्लक्षणं नाम तीर्थकरनाम, तेन सहिता सप्तभिरधिका षष्टिः सप्तपष्टिः 67 / एवमुक्तनीत्या, एवेति लुप्तानुस्वारं पदं प्राकृतत्वात् / 1 व्याख्याकारेण तु "तहेव” इति पाठानुसारेण व्याख्या कृता॥२-३ संघयनानि जे०।४ ल शक्ति वा (1) जे०। 5 अगुरुनाम भवति ज्ञा० (?) जे० / 6 आदौ यस्य तत् त्रसादिविंशतितमं निर्मा० जे० / 7 तित्थयरेणं सहिया" इत्यपि पाठः।