________________ 44 ) कर्मविपाकाख्ये प्रथामे कर्मग्रन्थे दिभिः प्रत्येकं योगः // 7 // तथा वर्ण 9 गन्ध 10 रस 11 स्पर्शनाम 12, इत्यत्रापि वर्णादिभिर्योज्यम् / अगुरुलघुकं च बोद्धव्यम् 13 / उपघात 14 पराघात 15 आनुपूर्वी 16 उच्छ्वासनाम 17 च, इत्यगुरुलध्वादिभिर्योज्यं. आतपादिभिश्च // 7 // आतप 18 उद्योत 19 विहायोगतयः 20 वसं 21 स्थावरा २२ऽभिधानं च / वसं च स्थावरं च त्रसस्थावरम् . इत्यादी द्वन्द्वनिर्देशः / त्रसस्थावरादीनां यश-कीर्त्ययश कीर्तिपर्यन्तानां सेतरत्वं ज्ञापयति / ततश्चैते त्रसादयः सेतरत्वात्त्रसादिविंशतिरिति संज्ञा लभन्ते / इति तयोरभिधानं नाम त्रसनाम स्थावरनाम च / बादर 23 सूक्ष्म 24 पर्याप्ता २५ऽपर्याप्त 26 च ज्ञातव्यम् // 73 // 'पत्तेयं साहरणत्ति' प्रत्येक 27 साधारण 28 / 'थिरमथिरत्ति' स्थिरा २९ऽस्थिरं 30 शुभा ३१ऽशुभं च ज्ञातव्यम् / सुभग 33 दुर्भगनाम 34 इति पूर्ववद्वादरादिभियोज्यम् / 'सूसर. तह दूसरंति' तथा सुस्वरं 35 दुःस्वरं 36 चैव ॥७४|'आइजमणाइज्जति' आदेया 37 ऽनादेयं 38 "जसकित्तीनाममजसकीत्ती यत्ति" यश कीर्तिनामा ३९ऽयशःकीर्तिनाम 40 चेति सुस्वरादिभिर्निर्माणादिभिर्योज्यम् / अनुस्वारलोपागमव्यत्ययादिकं प्राकृतत्वादवसेयम् / निर्माणं 41 तीर्थकरम् 42 / इति द्विचत्वारिंशद्भदाः / उत्तरभेदप्रस्तावनामाह-भेदानामपि द्विचत्वारिंशदूपाणां भवन्तीमे भेदाः सप्तषष्टित्रिनवतिव्युत्तरशतलक्षणा इति गाथापञ्चकार्थः॥७॥ तत्र सप्तपष्टिमाह___ गइ होइ 'चउन्भेया, जाईवि य पंचहा मुणेयवा। पंच य हुति सरीरा, अंगोवंगाई 'तिन्नेव // 76 // (पू०) व्याख्या गतिः ‘भवति' जायते 'चतुर्भेदा' चतुष्प्रकारा नारक 1 तिर्यङ् 2 नरा ३ऽमर 4 लक्षणा / जातिरपि च पञ्चधा 'मन्तव्या' ज्ञातव्या एकेन्द्रिय 1 द्वि 2 त्रि 3 चतु 4 प्पञ्चेन्द्रिय 5 रूपा / न केवलमेकविधा जातिः पञ्चविधाऽपि इत्यपिशब्दार्थः / 'च!' पूर्वया गत्या सह समुच्चयार्थः / पञ्च च भवन्ति शरीराणि औदारिक 1 वैक्रिया २ऽऽहारक 3 तैजस 4 कार्मण 5 लक्षणानि भवन्ति' जायन्ते / अङ्गोपाङ्गानि त्रीण्येव भवन्ति औदारिक 1 वैक्रिया २ऽऽहारका ३ऽङ्गोपाङ्गरूपाणि, तैजसकार्मणयोरङ्गोपाङ्गाभावादित्यवधारणम् / इति गाथार्थः // 76 // उक्ता गतिजातिशरीराङ्गोपोङ्ग विभागाः, साम्प्रतं संहननादिभेदानाह (पारमा०) गतिर्भवति चतुर्भेदा 4 नरकगत्यादिभेदात् / जातिरपि च पञ्चधा 9 एकेन्द्रियजात्यादिभेदाज् ज्ञातव्या / पञ्च च भवन्ति शरीराणि 14 औदारिकादिभेदात् / अङ्गोपाङ्गानि त्रीण्येव 17, न तु पश्चाप्याद्यशरीरत्रय एव तद्भावात् // 76 // १"चउपयारा" इत्यपि पाठः 2 “तिण्णेव” इत्यपि पाठ / 3 भेदाः साम्प्रतं संघयणादिभे० जे०।