________________ नाम्नो द्विचत्वारिंशत्प्रकृतिभेदाः [43 प्तिनाम किम् ? यस्योदये स्वपर्याप्तिभिरपरिपूर्णो भवति, न्यून एव कालं करोति, तदपर्याप्तनाम च ज्ञातव्यमवबोद्धव्यम् 26 / इति गाथार्थः / / 73|| एकं एक प्रति प्रत्येकं, यस्योदये प्रत्येकजीवो भवति पृथग्जीवो भवति तत्प्रत्येकनाम, यथा वृक्षादीनां पत्रपुष्पादि 27 / साधारणं तुल्यं नाम साधारणनाम, 'यदवाप्तावनेकजीवानामेकं शरीरं यथाऽल्लक्षादेः शरीरम् 38 / स्थिरमचलं, स्थिरं च तन्नाम च स्थिरनाम, यस्योदये जीवानां दन्तादयोऽवयवाः स्थिरा भवन्ति तत्स्थिरनाम 26 / न स्थिरमस्थिरं, यदुदये जीवस्यास्थिरा ग्रीवादयो भवन्ति तदस्थिरनाम 30 / शुभं प्रशस्तं तल्लक्षणं नाम शुभनाम, यदुदये जीवस्य शुभाः शिरःप्रभृतयोऽवयवास्तच्छुभनाम 31 / अशुभमप्रशस्तं, तदुदये जीवस्य पादादयोऽशुभावयवा भवन्तीति कृत्वाऽशुभनामोच्यते, 'ज्ञातव्य' 'मिदं बोद्धव्यमिति 32 सुभगमिति सुभगस्य भावः सौभाग्यं, 'यस्योदये सौभाग्ययुक्तो भवति सर्वजनमनोनयनानन्दकारी जीवस्तत्सौभाग्यनाम 33 / 'दुभगमिति' दुर्भगस्य भावो दौर्भाग्यं. यस्योदये जीवो दौभाग्ययुक्तो भवति सर्वजनमनोनयनोद्व गकारी तदुर्भगनाम 34 / "मूसरं इति शोभनः स्वरो यस्य तत्सुस्वरनाम. यदुदयाजीवस्य मधुरो गम्भीरः श्रव्यो ध्वनिर्भवति 35 / 'दूसरं' इति दुष्टः स्वरो धनिये स्मात्तदःस्वरनाम, यदुदयाजीवः काकस्वरः श्रुत्यसुखदो भवति तच्च ज्ञातव्यम् 36 / इति गाथार्थः / / 74 // आदेयनाम किम् ? यदुदयाजीवः सर्वस्यादेयो भवति ग्राह्यवाक्यो भवति तदादेयनाम 37 / न आदेयमनादेयं, यदुदया जीवोऽनादेयो भवति अग्राह्यवाक्यो भवति, सर्वोऽप्यवां विधत्ते तदनादेयनाम 38 / यशश्च कीर्तिश्च यशःकीती, तल्लक्षणं नाम यशःकीर्तिनाम, यशसा उपलक्षिता वा कीर्तिर्यशःकीर्तिः / 'दानपुण्यफला कोर्तिः,' 'पराक्रमकृत यशः' इतिवचनात् , यदुदयाद्यशःकीर्तिर्भवति जीवस्य तद्यशःकीर्त्तिनाम 39 / अयशःप्रधाना कीर्तिः, यदुदयाजीवस्य लोका अवर्णवादादीन 'गृह्णन्ति तदयशःकीर्त्तिनाम 40 / 'निम्माण' इति निर्माणनाम, यदुदयाजीवः स्वाङ्गावयवानां नियमनं विधत्ते नासिकादयो नासिकादिस्थान एव, नान्यत्र, इत्येवंभूतव्यवस्थानिवन्धनं नाम तनिर्माणनाम सूत्रधारसदृशम् 41 / तीर्थकरणशीलं तीर्थकरं यदुदये सुरासुरनरेन्द्रनिवहैः पूज्यः सर्वविद्भवति, तीर्थ च भावरूपं यदुदयात्प्रवर्तयति जीवस्तत्तीर्थकरनाम 42 / एते प्रथमा द्विचत्वारिंशतो 'भेदाः' विशेषाः, 'भेदानामपि' विशेषाणामपि भवन्ति' जायन्ते 'इमें वक्ष्यमाणलक्षणा भेदाः इति गाथार्थः // 7 // ___ उक्ता द्विचत्वारिंशद् , इदानीं सप्तषष्टिमाह * (पारमा०) प्रथमा द्विचत्वारिंशदियं भवतीति गम्यते / गति 1 जाति 2 शरीर 3 अङ्गोपाङ्गनि 4 च / बन्धन 5 सङ्घातन 6 संहनन 7 संस्थाननाम 8 चेति / नामशब्दस्य गत्या यदा व्याप्तौ जे० / 2 "मवबोद्धव्य० जे०। 3 यदुदयात् सौ० जे० / 4 सूसरमिति शो जे० / 5 यस्य तद्द 0 जे०।