________________ 42 ] कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे त्यते येन तत्संघातननाम, यथा कञ्चुके पृथग्भृतानि खण्डानि संघात्यन्ते सीवकेन, तथा शरीरऽपि येने कर्मणा बाहुकलाचीप्रभृतीनां 'संघातनसंयोगः क्रियते तत्संघातननाम 6 / संहननं शरीरसामर्थ्यलक्षणम् , यदुदये जीवस्य वज्रर्षभनाराचा दिर्भवति तत्संहनननाम 7 / संस्थीयते येन कर्मणाऽऽकारविशेषेण तत्संस्थाननाम, यस्य कर्मण उदये समचतुरस्रादिकं संस्थानं भवति जीवस्य, तच्च ज्ञातव्यम् 8 / इति गाथार्थः // 71 // तथाशब्दः समुच्चयार्थः / वर्णनं वर्णो 'वरणाद्वा (?) वर्णः शुक्लादिः, यदुदये शुक्लपीतरक्तनीलकृष्णवर्णः प्राणी भवति तद्वर्णनाम 9 / गन्ध्यत इति गन्धो दुर्गन्धादिः, यदुदये सुगन्धदुर्गन्धगन्धः प्राणी भवति तद्गन्धनाम 10 / रस्यत इति रसः, यस्य कर्मण उदये तिक्तकटुकषायाम्लमधुररससंयुक्तं शरीरं भवति प्राणिनां तद्रसनाम 11 / स्पृश्यत इति स्पर्शः, स चाष्टधा "सुकुमारादिः, स यदुदयात्प्राणिनो भवति . . तत्स्पर्शनामावगन्तव्यमिति 12 / अगुरुलघु च बोद्धव्यम् , यस्य कर्मण उदये न गुरु नापि लघु शरीरं जीवस्य तदगुरुलघुनाम 'षोडव्यं' ज्ञातव्यम् 13 / उपहन्यते येन कर्मण। तदुपधातनाम, यदुदये जीवस्य स्वावयवेन परेण वा व्याघातो भवति 14 / परानाहन्ति पराघातनाम यस्य कर्मण उदये आत्मावयवैः परं हन्ति 15 / आनुपूर्वी नरकादिका, यदुदये जीवो नरकादौ गच्छति, नरकादिनयने कारणं रज ववृषभस्य 16 / उच्छ्वसनमुच्छ्वासस्तस्य नाम उछ्यासनाम, यदुदयाजीवस्योच्छ्वासनिःश्वासी भवतस्तच ज्ञातव्यम् 17 / इति गाथाः // 72 // आतपनमातपस्तल्लक्षणं नामातपनाम, यथाऽऽदित्य आतपनामोदये तपति, एवमन्येऽपि प्राणिन आतपनामकर्मोदये तपन्ति, तेनातपनामोच्यते 18 / उद्योतनमुद्योतस्तदुपलक्षितं नाम उद्द्योतनाम, यथा स्वद्योतक उद्योतयति उद्योतनामोदये, एवमन्योऽपि प्राणी यस्य कर्मण उदये. उद्योतयति तत्कर्म तस्योद्योतनामोच्यते 19 "विहायसा गम्यते यया 'प्राणिभिः सा विहायोगतिः, यदुदये प्राणी आकाशगामी भवति तद्विहायोगतिनाम 20 / न केवलमातपोद्योते अवगन्तव्ये, विहायोगति श्वावबोद्धव्या / त्रसस्थावराभिधानं च, त्रस्यत इति त्रसः त्रस इत्यभिधानमाह्वानं यस्य नाम्नः कर्मणस्तत्त्रसाभिधानं, यदुदये जीवस्त्रसो भवति 21 स्थावर इत्यभिधानं नाम यस्य तत्स्थावराभिधानं, यदुदये जीवस्य स्थावरत्वं भवति 22 / बादरः स्थूलस्तल्लक्षणं नाम बादरनाम, यदुदये जीवो बादरपरिणामपरिणतो भवति 23 / सूक्ष्मो लघुरणुमात्रो यस्य कर्मण उदये जीवः सूक्ष्मपरिणामपरिणतो भवति तत्सूक्ष्मनाम 24 / पर्याप्तं चापर्याप्तं च पर्याप्तापर्याप्तं तल्लक्षणं नाम, यदुदये जीवः स्वपर्याप्तिभिः पर्याप्तः परिपूर्णो भवति तत्पर्याप्तनाम 25 / अप 1 संघातनं सं० जे० / २०दि भवति जे / 3 वर्णनाद्वा जे०। 4 सुकुमालादिः : 5 'आकाशेन जे० टिप्पणी / 6 श्वावद्रष्टव्या जे० /