________________ / 41 नाम-प्रकृतिसङ्ख्या-स्वरूप फलादिवर्णनम् 'यथोद्देशस्तथा निर्देशः' इति न्यायानाम्नः प्रकृतभेदानाह (पारमा०) अथवाऽपि विनवतिर्भेदाः / अथवा व्युत्तरशतं नाम्नः प्रकृतीनां भवति / सर्वानपि द्विचत्वारिंशत्सप्तषष्टित्रिनवतिव्युत्तरशतलक्षणान् यथाक्रमं भणामः, भेदानिति योज्यम् / इति गाथार्थः // 70 // तत्र द्विचत्वारिंशतमाह--- पढमा बायालीसा, गइजाइसरीरअंगुवंगे य। बंधणसंघायणसंघयणसंठाणनामं च // 71 // तह वण्णगंधरसफासनामअगुरुलहुगं च बोद्धव्वं / उबघायपराधायाणुपुब्बिउस्सासनामं च // 72 // आयावुजोयविहायगई तसथावराभिहाणं च / बायर सुहुमं पजत्तापजत्तं च नायब्वं // 73 // पत्तेयं माहारण,थिरमथिर सुभासुभं च नायव्वं / 'सूभगदूभगनामं, सूसर तह दूसरं चेव // 74 / / आइज्जमणाइज्ज, जसकित्तीनाममजसकित्ती य / निम्माणं तित्थयरं, भेयाणवि हुंति में भेया॥७५ // (पू०) व्याख्या-'प्रथमा' आद्या उद्देशापेक्षया द्विचत्वारिंशदवगन्तव्याः, काः 1 इत्याहगत्यादिकाः / गम्यतेऽस्यामिति गतिर्गमनं वा, गतिर्नरकादिका, जातिपक्षसमाश्रयणात्सर्वत्रैकत्वं द्रष्टव्यम् , यस्योदये नारकतिर्यङ्नरामरलक्षणा गतिर्भवति जीवस्य तद्गतिनाम उच्यते 1 / जायते जन्यते वा जातिरेकेन्द्रियादिका, यदुदये एकेन्द्रियादिकत्वं भवति जीवस्य तदेकेन्द्रिय(यादिजाति) नाम भवति ज्ञातव्यम् 2 / शीर्यत इति शरीरमौदारिकादि, यस्य कर्मण उदये औदारिकादिशरीरं संपद्यते देहिनां तच्छरीर नामावबोद्धव्यं ज्ञातव्यमिति सर्वत्र क्रिया 3 / अङ्गानि शिरःप्रभृतीनि, उपाङ्गान्यगुल्यादीनि, यस्य कर्मण उदये सर्वाण्येवाङ्गोपाङ्गानि निष्पधन्ते तदङ्गोपाङ्गनाम च ज्ञातव्यम् 4 / बध्यत इति बन्धनमौदारिकबन्ध नादि, तद्येन कर्मणा क्रियते तदौदारिक(कादि)बन्धनं नाम भवति ज्ञातव्यमिति क्रियाध्याहारः क्रियाऽभावे 5 / संघा 1 "सुहासुह" इत्यपि पाठः 2 “सूहगदूहग०" इत्यपि पाठः / 3 नाम च बो० जे०। 4 ०नादिना येन कर्मणा जे /