________________ नाम / कर्मविपाकाख्ये प्रथमे कमेग्रन्थ नाम्नो 'निरुक्तेन शब्द व्युत्पादयंस्तस्यैव भेदानाह-- (पारमा०) तथा नामकर्मापि जीवस्य 'अनेकानि' बहूनि रूपाणि 'शोभनाशोभनानि' शुभाशुभानि, अत एव लोकस्येष्टानिष्टानि करोति / अयमाशयः-शुभान्यपि बहुभेदानि अशुभान्यपि बहुभेदान्येव / एतेन सामान्यतः शुभाशुभभेदाद् द्विविधमपि नाम भवतीत्य गन्तव्यम् / यदागमः- "नामं कम्मं दुविहं, सहममुहं च अहिय। सुहस्स उ बहू भेगा, . एमेव असुहस्सवि // 1 // " इति गाथार्थः // 68 // नामकर्मणो व्युत्पत्तिपूर्वकं भेदोपक्षेपमाह गइयाइएसु जीवं नामइ भेएसु जं तओ नाम / तस्स उ बायालीसं. भेया अहवावि सत्तट्ठी // 69 // ... (पू०) व्याख्या-गतिरादिर्येषां ते गत्यादयः, गतिर्नरकगत्यादिका आदिशब्दाज्जात्यादयों गृह्यन्ते तेषु च, "जियं' प्राणिनं, 'च:' पादपूरणे, नामयति 'भेदेषु' विशेषेषु 'यद्' यस्माकारणात 'ततः तस्मादन्वर्थबलान्नाम उच्यते, तस्य तु' पुनर्नाम्नः कर्मणो द्विचत्वारिंशद् 'भेदाः' विशेषाः संख्यया, अथवेति पक्षान्तरसूचकः / पक्षान्तरमाश्रित्य सप्तपष्टिरपि भवन्ति भेदाः / इति गाथार्थः // 66 // नाम्न एवोत्तरभेदानाह-- (पारमा०) 'गत्यादिषु' वक्ष्यमाणेषु मेदेषु 'जीव' प्राणिनं 'नामयति 'तत्तत्पर्यायानुभवनं प्रति प्रवणयति 'यद्' यस्मात् 'ततः तस्मान्नामेत्युच्यते / तस्य पुनर्द्विचत्वारिंशद्भेदाः, अथवाऽपि सप्तषष्टिः // 66 // अहवावि हु तेणउई, भे या पयडीण ‘हुंति नामस्म / अहवा तिउत्तरसय, सव्वंवि जहक्कम मणिमो // 7 // (पू०) व्याख्या-'अथवा' इति पक्षान्तरार्थ एव 'अपि:' संभावने समुच्चये वा / 'हु" पाइपूरणे / पक्षान्तरमङ्गीकृत्य 'त्रिनवतिरपि संभाव्यते' त्रिभिरधिका नवतिः, त्रिनवतिः, साऽपि संभवति / 'भेदाः' विशेषाः 'प्रकृतीनां कर्मप्रकृतीनां 'भवन्ति' जायन्ते, कस्य ? 'नाम्नः' कर्मणोऽथवा 'युत्तरशतं' त्रिभि रुत्तरं शतं युत्तरशतं भवति, भेदानामिति शेषः, नाम्न एव / यद्येवं ततः किम् ? इत्याह-सर्वेऽप्येते प्रागभिहिता भेदाः 'यथाक्रम यथापरिपाट्या 'भणामः प्रतिपादयामः / इति गाथार्थः / / 70 // . 5 'पदभञ्जनेन० जे० टिप्पणी / 2 व्याख्याकारेण तु “सुय जियं" इतिपाठानुसारेण व्याख्यातम् 3 "य" इत्यपि पाठः / 4 'जीवं' जे० / ५-"इवि" इति व्याख्याकाराः। 6 “होंति" इत्यपि पाठः / 7 'अधिक' जे. टिप्पणी। -