SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आयुश्चतुष्क-नाम-स्वरूपफल दिवर्णनम् ( 36 त चित्तगरसमाणं. 'जह होइ तहा निसामह // 66 // (पू०) व्याख्या-'भणित' प्रतिपादितमायुष्कर्म / षष्ठं नाम कर्म भण्यते / नामदष्टान्तमाह - तत् 'चित्रकरसमान' चित्रकरसदृशं 'अनेकरूपं' नानारूपं / जीवं' इति प्राणिन 'करोति' निवर्तयति / इति गाथार्थः // 66 // दृष्टान्तमेव व्यक्तीकुर्वन्नाह --- (पारमा०) भणितमायुष्कर्म, षष्ठं कर्म पुनर्नाम भण्यते / तच्चित्रकरसमानं यथा भवति लथा निशमयत / इति गाथार्थः // 66 // प्रतिज्ञातमाह-- जह चित्तयरो निउणो, अणेगरूवाइं कुणइ रूवाई। मोहणमसोहणाइ, 'चोक्खाचोक्खेहि वण्णेहिं // 67 // व्याख्या-यथेति दृष्टान्तार्थः / चित्रकरः' "विज्ञानिकः निपुणः' नैपुण्ययुक्तः 'अनेक रूपाणि' बहुरूपाणि 'करोति' विदधाति 'रूपाणि' प्रतिबिम्बानिः / तान्येवाह-'शोभनानि सुरूपाणि 'अशोभनानि' विरूपाणि, चोक्षाः निर्मला अचोक्षाः अशुद्धा अनिर्मलास्तैर्वर्णकैर्हरितालादिभिः / इति गाथार्थः // 67 / / दार्शन्तिकयोजनामाह-- ... (पारमा०) यथा चित्रकरो 'निपुणः' स्वकर्मणि प्रवीणः 'अनेकरूपाणि' 'नानाप्रकाराणि 'रूपाणि' हस्त्यश्वादीनि करोति 'शोभनाशोभनानि' रम्यारम्याणि चोक्षाचोक्षः विशदाविशदैः 'वर्णैः हरितालादिभिः / इति गाथार्थः // 67 // .. दार्शन्तिके योजयति तह नामंपि य कम्म, अणेगरूवाई कुणइ जीवस्स / सोहणमसोहणाई, इटाणिट्ठाई लोयस्स // 68 // व्याख्या-'तथा' तेनैव प्रकारेण नामापि कर्म 'अनेकरूपाणि' नानारूपाणि ऋजुकुजवामनादिलक्षणानि 'करोति' निर्वर्तयति 'जीवस्य' आत्मनः, अनेकरूपाण्येवाह-शोभनानि सुरूपाणि, अशोभनानि विरूपाणि, किंभूतानि च तानि ? इत्याह-'इष्टानिष्टानि / अभिमतानभिमतानि 'लोकस्य' प्राणिसमूहस्य / सर्वत्रानुस्वारोऽलाक्षणिकः प्राकृतत्वाद्रष्टव्यः / इति गाथार्थः // 18 // 1 "अणेगरूवं जियं कुणइ" इत्यपिपाठस्तदनुसारेण व्याख्याकारेण व्याख्यातम् / 2 जियमिति प्रा० जे० ३"चुक्खमचोक्खेहिं" इत्यपि पाठः / / 4 "वैज्ञानिकः” इत्यपि पाठः 5 "नानाकाराणि" इत्यपि पाठः / 6 "चुक्षा चुरेः" इत्यपि पाठः / 7 ०नि लोकस्य अमिमता जे० /
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy