________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे (पू०) व्याख्या-'यत्' यस्मात् 'नारकिक' नरकोत्पन्नप्राणिनं 'नारकभवे' नारकाणां भवो नारकभवो नारकोत्पत्तिस्थानं तस्मिन् , 'तं' नारकं धारयति' अबस्थापयति 'उद्विजन्तमपि चेतस्युद्वेगं कुर्वाणमपि 'जानीहि विद्धि, तत् 'नरकायुः' नरकेषु प्राणिनोऽवस्थितिरूपम् / 'हडिः, प्रतीता तया सदृशस्तुल्यस्तत्तुल्यः, 'तस्य तु' पुनर्नारकायुष्कस्य 'विपाकः' अनुभवः / यथा हि राज्ञा 'हडौ क्षिप्तश्चौरादिह दयेनोद्वगं कुर्वन्नपि तया ध्रियते विवक्षितकालं यावत् , तस्या विघटनाभावे न निर्गच्छति तथा नरकादावपि / इति गाथार्थः // 64 // उक्तं नरकायुष्कम् , तिर्यगादीना मतिदेशमाह-- (पारमा०) 'यत्' कर्म नैरयिकं निरयोत्पन्नजीवं नारकभवे तस्मिन् धारयति उद्विजन्तमपि तत्कर्म निरयायुर्जानीहि / निष्क्रान्ता अयाद् इष्टफलदैवात्तत्रोत्पन्नानां सातवेदनाभावेनेति निरयाः। हडिसदृशस्तस्य तु विपाकः, यथा चौरादिस्तलवरादिना हडिक्षिप्तो गन्तुमना अपि तया धार्यते तथा जीवोऽपि नरकादिदुर्गनिष्क्रमितुमना अपि नरकाद्यायुषा हडिसदृशेन धार्यते / इति गाथार्थः // 64 // नरकायुरुक्त्वा तिर्यगायुष्कादीनामतिदेशमाह-- एवं तिरियं मणुयं देवं तिरि याइएसुः भावेसु। जं धरइ तब्भवगयं, तं तेसिं आउयं भणियं // 65 // व्याख्या-एवं' उक्तेनैव प्रकारेण 'तियञ्च' गवादिकं 'मनुष्य' पुरुषादिकं 'देव' भवनपत्यादिकं तिर्यगादिषु भावेषु' भवानुभूतिलक्षणेषु यद् 'घारयति' अवस्थापयति, तेर्षा भवस्तद्भवस्तद्गतं नारकादिभवगतं 'तद्' आयुः 'तेषां' तिर्यङ्मनुष्यदेवानामायुरकं भणितम् / तिर्यग्भवे तिर्यगायुष्क, मनुष्यभवे मनुष्यायुष्कं, देवभवे देवायुष्कं 'भणितं' प्रतिपादितम् / इति गाथार्थः // 65 // उक्तमायुष्कर्म, षष्ठं नामाह(पारमा०) 'एवं' उक्तप्रकारेण 'तियश्च गवादिक मनुष्य पुरुषादिकं 'देवं' भवनपत्यादिकं 'तिर्यगादिषु भावेषु' भवानुभूतिलक्षणेषु यत्' धारयति तद्भवगतम् , तेषां तिर्यगादीनां भवः तत्र स्थितं तत्तेषां तिर्यगादीनामायुरुक्तम् / इति गाथार्थः // 65 // आयुनिंगमयन् नामप्रस्तावनामाह भणिय आउयकम्म, छटुं, कम्मं तु भण्णए नाम। 1 उद्विजमानमपि चे० जे० / 2 हटिः जे० / 3 हटौ जे० / ४°मप्यतिदेश० जे०। 5 "मण्णई" इत्यपि पाठः।