________________ 36 ] कर्मविपाकास्ये प्रथमे कर्मग्रन्थे भूपीठलुठनादिशोको भवति, तज्जानीहि शोकमोहनीयम् / इति गाथार्थः / / 56 // जुगुष्मामोहनीयमाह दुग्गंधमलिणगेसु य, 'अभितरबाहिरेसु दब्बेसु / जेण विलीयं जीवे, उप्पजइ सा 'दुगुछा उ // 6 // ..(पू०) व्याख्या-दुर्गन्धाश्च मलिनाश्च दुर्गन्धमलिनाः, दुर्गन्धमलिना एव दुर्गन्धमलिनकाः, स्वार्थे कन् / दुर्गन्धा विरूपगन्धाः मलिना रेणुगुण्डिताः तेषु च, सहाभ्यन्तरबाह्य वर्तन्त इति साभ्यन्तरबाद्यानि, तेषु च, द्रवन्ति क्षरन्ति च तान तान् पर्यायानितिद्रव्याणि (तेषु), आभ्यन्तराणि रसासृगादीनि, बाह्यान्यशुच्यादीनि, चकारादपरेषु च तथाविधद्रव्येषु 'येन' कर्मणा 'व्यलोक' चित्तस्यान्यथात्वं जीवे' जीवस्य 'उत्पद्यते' जायते 'सा. जुगुप्सा' सैव जुगुप्सामोहनीयं, नान्या / इति गाथार्थः // 6 // कियर हास्यादीनामनुवृत्तिर्भवति ? इत्याह-- (पारमा०) दुर्गन्धमलिनकेष्वाभ्यन्तरबाह्य पु द्रव्येषु, आभ्यन्तराणि रसासृगादीनि, बाह्यान्यशुच्यादीनि, तेषु येन कर्मणा व्यलीकं मुखमोटननासाकुचनादिकं जीवस्योत्पद्यते सा जुगुप्सा / इति गाथार्थः // 6 // हास्यादिषट्कस्य गुणस्थानकेपृदयमाह-- 'छह वि होइ विवागो, मिच्छाओ जा अपुवकरणस्म / चरमसमउत्ति परओ, नस्थि विवागो 'उ छण्हपि // 61 // व्याख्या-'षण्णामपि' हास्यादीनां 'येन' कारणेन 'विपाकः' उदयो 'मिथ्यात्वात' उक्तस्वरूपात्सकाशाद्यावत् 'अपूर्वकरणस्य' निवृत्तिबादरगुणस्थानकस्या प्राप्तपूर्वकस्य करणस्य वा 'चरमसमयः' अपश्चिमसमयः, 'इतिः समाप्तौ / 'परतः' अग्रतो 'नास्ति' न विद्यते 'विपाकस्तु' अनुभवस्तु 'षण्णामपि' हास्यादीनाम् / इति गाथार्थः // 61 // . उक्तं मोहनीयम् , आयुष्कमाह (पारमा०) षण्णामपि भवति 'विपाक:' उदयो मिथ्यात्वाद्यावदपूर्वकरणस्य चरमसमय इति / परतोऽनिवृत्तिवादरतोऽनिवृत्तिवादरादिषु पुनर्नास्ति विपाकः षण्णामपि / इति गाथार्थः // 61 // अथ मोहनीयं निगमयमायुष्कर्मप्रस्तावनामाह१ व्याख्याकारेण तु “समितरबा--" इति पाठानुसारेण व्याख्यातम् / 2 "दुगंछा उ" इत्यपि पाठः जे० / 3 प्सा' तदै (दे?)व जुगुप्सामो० जे० / 4 "छण्हवि जाण" इत्यपि पाठः / व्याख्याकारेण तु-"जेण" इत्येतत्पाठानुसारे व्याख्यातम् / 5 "य" इत्यपि पाठः।६ प्राप्तिपूर्वस्य जे०।। . .