________________ रत्यादिनोकषायमोहनीयस्वरूपफलादिवर्णनम् [ 35 (पू०) व्याख्या-'भयवर्जिते' भयरहिते 'जीवे' प्राणिनि यस्य 'कर्मणः' मोहनीयविशेषस्योदयेन 'भवन्ति' जायन्ते 'सप्तापि भयस्थानानि' इहपरलोकादानाकस्मादाजीवमरणाश्लाघारूपाणि / तत्रेहलोकभयं मनुष्यो मनुष्याद्रिभेति 1 / परलोकभयं मनुष्यो गवादेनरकादेर्वा बिभेति 2 / आदानं ग्रहणं तस्माद्भयमादानभयम् , अस्माकमयं राजादिर्धनादि ग्रहीष्यते, 3 / अकस्माद्भयमिदं धवलगृहादि ममोपरि निपतिष्यतीत्येवंरूपम् 4 | आजीविकाभयं दुष्कालादौ पतिते कथं वयं जीविष्यामः 1 5 / मरणभयं मरिष्यामो वयमित्येवं हृदयकम्परूपम् 6 / अश्लाघाभयं ममावर्णवादं लोकः करिष्यतीत्येवंरूपम् 7 / भयरूपं मोहं भयमोहं तस्य सः 'तु' पुनः 'विपाकः' अनुभवः तुरेवकारार्थो वा / इति गाथार्थः // 58 // शोकमोहनीयमाह (पारमा०) भयवर्जिते जीवे यस्य कर्मण इहोदयेन भवन्ति सप्तापि भयस्थानानि, भयमोहे स पुनर्विपाकः / भयस्थानानि च इहलोकपरलोकादानाकस्मादाजीवमरणाश्लाघारूपाणि / तत्र मनुष्यस्य मनुष्याद्भयमितीहलोकभयम् 1 / मनुष्यस्य महिषादेर्नरकादेर्वा भयं परलोकभयम् 2 / मम सकाशादयमिदमादास्यतीति भयमादानभयम् 3 / उपविष्टस्य सुप्तस्य वा मत्तमातङ्गादिनिमित्तमन्तरेण भयमकस्माद्भयम् 4 / धान्यहीनस्य दुष्कालपतनाद्याकर्णनाद्भयमाजीविकाभयम् 5 / नैमित्तिकादिना मरिष्यसि त्वमधुनेत्यादिकथिते भयं मरणभयम् 6 / अकार्यप्रकरणोन्मुखस्य 'विवचनायां जनापवादमुत्प्रेक्ष्य भयमश्लाघाभयम् / इति गाथार्थः // 58|| शोकमोहनीयमाह-- मोगरहियम्मि जीवे, जस्सिह उदएण होइ कम्मस्स / अकंदणाइ सोगो. तं जाणह सोगमोहणियं // 59 // (पू०) व्याख्या-'शोकरहिते' व्यपगतशोके 'जीवे' प्राणिनि स्वभावेन यस्य 'तु' पुनमोहस्य 'उदयेन' विपाकेन 'भवति' जायते कर्मणः, किम् ! इत्याह-'आक्रन्दनादिशोकः' आक्रन्दनमादिर्यस्य शोकस्य तदाक्रन्दनादिशोकः / आक्रन्दनं सशब्दं सदुःखं सताडनं प्रल. पनम् / आदिशब्दादुरोऽभिघातादि, तत् 'जानोहि' अवबुध्यस्व शोकमोहनीयम् इति गाथार्थः // 56 // जुगुप्सामोहनीयमाह (पारमा०) शोकरहिते जीवे यस्य कर्मण उदयादिहाक्रन्दनादि, आदिशब्दादुरस्ताडन 1 "विवेचनायाम्" इत्यपि / 2 व्याख्याकारेण तु-"जस्स उ उदएण" इत्येतत्पाठानुसारेण व्याख्यातम् / 3 "सोगं" इत्यपि पाठः।४ “जाणसु" इत्यपि पाठः /