________________ 34 ] कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे सिआ। तंजहा-पासित्ता, भासित्ता, सुअित्ता, संभरित्ता" इति / अत्र संसारे जीवस्य स हास्यमोहनीयस्य कर्मणो भवति विपाकः / इति गाथार्थः // 5 // रतिमोहनीयमाह सच्चित्ताचित्तेसु य, बाहिरदव्वेसु जस्स उदएणं / होइ रई रहमोहे, 'सो उ विवागो वियाणाहि // 56 // (पू०) व्याख्या-सच्चिताश्चाचित्ताश्च-सच्चित्ताश्चाचित्ताः कलत्रगृहादयः तेषु च, 'बाह्यद्रव्येषु' आत्मव्यतिरिक्तेषु, 'यस्य' मोहनीयविशेषस्य 'उदयेन' विपाकेन भवति रतिः' प्रीतिः, / ('रतिमोहे')रतिमोहनीयस्यैव कर्मणस्तं विपाकं 'विजानीहि' अवबुध्यस्व / इति गाथार्थः॥५६॥ अरतिमोहनीयमाह (पारमा०) सच्चित्तेषु देहकलत्रादिषु, अचित्तेषु कनकादिषु, चकारान्मिश्रेष्वलङ्कृतस्त्र्यादिषु, बाह्यशब्देनान्तरसम्यक्त्वादीनां व्युदासेन द्रव्येषु यस्य कर्मण उदयेन रतिर्भवति रतिमोहे / स 'तु' पुनर्विपाक इति विजानीहि / इति गाथार्थः / / 56 // अरतिमोहनीयमाह सच्चित्ताचित्तेसु य. बाहिरदव्वेसु जस्स उदएणं / अरई होइ हु जीवे, सो उ विवागो अरइमोहे // 5 // (पू०) व्याख्या- 'सच्चित्ताचित्तेषु च' ज्यादिवेश्मादिष्वशोभनेषु च 'बाह्यद्रव्येषु' आत्मनः पृथग्भूतेषु 'यस्य' कर्मणः 'उदयेन' विपाकेन अरतिः 'भवति' जायते रणरणकरूपा 'जोवे' जीवस्य स 'तु' पुनः 'विपाकः' अनुभवः 'अरतिमोहे' रणरणक रूपे, मोहस्यैव नान्यस्य / सर्वत्र षष्ठयर्थे सप्तमी प्राकृतत्वात् / इति गाथार्थः // 7 // भयस्वरूपमाह (पारमा०) 'सचित्ताचित्तेषु' उक्तस्वरूपेषु बाह्यद्रव्येषु यस्य कर्मण उदयेनारतिर्भवति जीवे, स 'तु' पुनर्विपाकोऽरतिमोहे / इति गाथार्थः // 55 // भयमोहनीयमाह-- भयवजियम्मि जीवे, जस्सिह उदएण 'हुति कम्मस्स। सत्तवि भयठाणाई, भयमोहे सो विवागो उ // 58 // 1 व्याख्याकारेण तु-"तं तु विवागं" इति पाठानुसारेण व्याख्यातम् / 2 रूपमोहस्यैव जे . 3 "होइ" इत्यपि पाठः।