________________ वेदत्रय-हास्यमोहनीयस्वरूपफलादिवर्णनम् [ 33 नपुसकवेदस्य / अपुवेदग्रहणेनात्र नपुसकवेदो गृह्यते न स्त्रीवेदः, तत्स्वरूपस्य प्रागभिहितत्वात् / इति गाथार्थः // 53 / / कियड्रमेते गुणस्थानकेषु गच्छन्ति ? इत्याह-- (पारमा०) स्त्रीपुरुषयोरुपरि यस्येह कर्मण उदयेन राग उत्पद्यते, पित्तश्लेष्मोदये मार्जिताभिलाषवत् , नगरमहादाहसमः पुनर्विपाकः 'अपुवेदे' नपुसकवेदस्य / इति गाथार्थः // 53 // .. गुणस्थानेष्वेतद्विपाकवेदनाय हास्यादिषट्कोद्देशाय चाह_ 'तिण्ह वि होइ विवागो, मिच्छाओ जाव बायरो ताव / हासरईअरइभयं, सोगदुगंछा 'उ अह भणिमो॥५४॥ व्याख्या-त्रयाणामपि 'भवति' जायते 'विपाकः' अनुभवो मिथ्यात्वात्सकाशाद्याबद्धादरगुणस्थानकं तावदनुवृत्तिः, परतो नास्त्यनुवृत्तिः / उक्तं वेदत्रिकम् , हास्यादिषट्कमाह'हास्यरत्यरतिभयं' हास्यं च रतिश्चारतिश्च भयं च द्वन्द्व कवद्भावादेकत्वम् / शोकजुगुप्से च 'अथ' अनन्तरं 'भणामः' प्रतिपादयामः / इति गाथार्थः // 54 // हास्यस्वरूपमाह- . (पारमा०) त्रयाणामपि स्रीवेदपुरुषवेदनपुसकवेदानां विपाको भवति मिथ्यात्वाद् यावदादरोऽनिवृत्तिवादरस्तावत् / न परतः / हास्यरत्यरतिभयमिति समाहारः / शोकजुगुप्से अथ भणामः / इति गाथार्थः // 54 // तत्र हास्यमोहनीयमाह मनिमित्तऽनिमित्तं वा, जहासं होइ इत्थ जीवस्स / सो हासमोहणीयस्स होइ कम्मस्स उ विवागो॥५५॥ व्याख्या-सह निमित्तेन वर्तत इति सनिमित्तं सकारणं, न विद्यते निमित्तं करणं यस्मिन् तदनिमित्तम् , तद्वा 'यहास्यं मुखविकासलक्षणमट्टहासरूपं वा 'भवति' जायते 'अत्र' संसारे 'जीवस्य' प्राणिनः, सः 'हास्यमोहनीयस्यैव' मुखविकासलक्षणस्यादृट्टहासरूपस्य वा भवति कर्मणस्तु 'विपाकः' अनुभवनम् / स इति विपाकापेक्षया पुल्लिङ्गनिर्देशः / इति गाथार्थः ॥५५॥रतिमोहनीयस्वरूपमाह (पारमा०) सनिमित्तं दर्शनभाषणश्रवणरूपवाह्यकारणापेक्षं, अनिमित्तं बाह्यहेतुमन्तरेण किमप्यन्तःस्मृतवतो यद्धास्यं भवति / यदुक्तं श्रीस्थानाङ्ग-"चउहिं ठाणेहिं हासुप्पत्ती 1 "तिण्हवि जाण विवागो" इत्यपि पाठः / 2 "य" इत्यपि पाठः / 3 "एत्थ" इत्यपि पाठः।