________________ 32 कर्मविपाकाख्ये प्रथम कर्मग्रन्थ (पारमा०) पुरुष प्रत्यभिलाषः स्त्रिया यस्य कर्मण उदयेन भवति, पित्तोदय मधुराभिलापवत् , स करीषाग्निदाहसमः स्त्रीवेदस्य विषाकः / इति गाथार्थः // 51 // पुरुषवेदमाह इत्थीए पुण उवरि. 'जस्मिह उदएण रागउप्पजे / सो तणदाहममाणो, होइ विवागो पुरिमवेए // 52 // (पू०) व्याख्या-'स्त्रियः पुनरुपरि' स्त्रीमङ्गीकृत्य, पुरुषस्येति सामर्थ्याल्लभ्यते गाथायामनुपात्तमपि, उत्पद्यते इति क्रियोपादानात् / नहि कर्तारमन्तरेण क्रिया संभवति, "क्रियाऽप्युपात्ता सामर्थ्यात्कर्तारमाक्षिपति कर्म च, कर्म चोपात्तं कर्तारं क्रियां चाक्षिपति, न कर्तृ व्यति- . रेकेण क्रिया संभवति. नापि कर्म विना क्रिया, इति सामर्थ्यादेकस्मिन्नुक्ते इतरयोर्ग्रहणम् / 10 'यस्य' कर्मणो मोहनीयविशेषस्योदयेनैव 'रागः' अभिष्वङ्गलक्षणः स्त्री सेवयामीत्येवंरूपः 'उत्पात' जायेत, स तृणदाहसमानः, यथा तृणानां दाहे ज्वलनं झटिति विध्यापनं च भवति, एवं पुवेदोदये स्त्र्यासेवनं प्रत्यऽभिलाषो भवति, निवर्तते च, तत्सेवने शीघ्र 'भवति' संजायते 'विपाकः' अनुभवः 'पुवेद एव' पुरुषवेद एव / इति गाथार्थः॥५२॥ नपुसकवेदस्वरूपमाह __ (पारमा०) स्त्रिया उपरि पुनर्यस्येह कर्मण उदयेन राग उत्पद्यते, श्लेष्मोदयेऽभ्लाभिलाषवत् , स तृणदाहसमानो भवति विपाकः 'पुर षवेदे' पुरुषवेदम्य / इति गाथार्थः / / 52 / / नपुसकवेदमाह-- इत्थीपुरिमाणुवरिं,' जस्सिह उदएण राग उप्पजे / नगरमहादाहसमो, 'सो उ विवागो अपुमवेए // 53 // व्याख्या-स्त्री च पुरुषश्च स्त्रीपुरुषौ प्रतीतौ तयोरुपरि 'यस्य' मोहनीयविशेषस्य 'उदयेन' विपाकेन रागः 'उत्पद्यतैव' जायेव / किंभूतोऽसौ ? 'इत्याह-नगरमहादाहसमः' नगरस्य महादाहो नगरमहादाहः तेन समस्तुल्यः, यथा नगरं दह्यमानं महता कालेन दह्यते विध्याति च महतैव / एवं नपुसकवेदोदयेऽपि स्त्रीपुरुषयोः सेवनं प्रत्यभिलाषातिरेको महताऽपि कालेन न निवर्तते नापि सेवने तृप्तिः 'जानीहि अवबुध्यस्व 'विपाकः' अनुभवः 'अपुवेदे 25 1-6 “जस्सुदएणं तु” इत्यपि पाठः, तदनुसारेण व्याख्याकारेणव्याख्यातम् / 2.7 "रागमुप्पजे " इत्यपि। पाठः / 3 व्याख्याकारेण तु ""गो उ पुमवेए' इति पाठमनुमृत्य व्याख्यातम्।४ क्रिया ह्य त्पन्ना सामर्थ्या जे।'उत्पद्यते' जायते / 8 “होइ" इत्यपि पाठः / व्याख्याकारेण तु-"जाण विवागो” इत्येतत्पाठानुसारेण व्याख्यातम् / / “नपुंसस्स" इत्यपि पाठः॥