________________ संज्वलनकपाय चतुष्क नोकषायस्वरूप फलादिवर्णनम् [31 - 'लोभाय' पुनर्हरिद्राशगतुल्यस्य यावत्सूक्ष्मःसंपरायो लोभी यस्मिन् गुणस्थानके तत्सूक्ष्मसंपरायं तस्मिन , 'भवनि' जायते 'विषाकः' उदयः, न परस्मिन्नुपशान्तमोहादौ / इति गाथार्थः॥४९॥ साम्प्रतं नोकपायानाह (पारमा०) एपां संज्वलनानां त्रयाणां क्रोधमानमाय लक्षणानां विपाको मिथ्यात्वा- 5 द्याववादरोऽनिवृत्तिवादर इति जानीहि, न परतः, इत्यत्रापि संबध्यते / 'लोभस्य' चतुर्थसंज्वलनस्य यावत् , 'सूक्ष्मः' सूक्ष्मसंपरायगुणस्थानं तावद्विपाको भवति, न परतः पुनः प्रशान्तमोहादिषु / इति गाथार्थः / / 49 // उक्ताः कषायाः / सम्प्रति नोकषायप्रतिपादनायह नव नोकमाय भणिमो, वेया तिन्नेव हासछक्क च। इत्थीपुरिसनपुंसग. तेसि सरूवं इमं होइ // 50 // व्याख्या-नव संख्यया नोकषायाः पूर्वोक्तस्वरूपाः तान् , 'भणिमो' इति प्रतिपादयामः / वेदास्त्रयं उक्तलक्षणाः, हास्यषट्कं च / तत्र तावद् वेदाः स्त्रीनपुसकरूपाः, तेषां च स्वरूपं 'इमं वक्ष्यमाणलक्षणं 'भवनि' विज्ञेयम् / इति गाथार्थः // 50 // 'यथोद्देशस्तथा निर्देशः' इदि न्यावात् स्त्रीवेदं लक्षणपूर्वकं दृष्टान्तपुरस्सरमाह- 15 .(पारमा०) कषायसहचरिता नोकषायाः, नोशब्दोऽत्र सहचारवाची, कषायसहचरितत्व च कपायैः सह सर्वदा वर्तमानत्वात् / ते च नव, तान् भणामः, वेदत्रयं हास्यादिषट्कं च / तत्र वेदत्रिकमाह-स्त्रीपुरुषनपुसकेति स्त्रीवेदः पुरुपवेदो नपुसकवेदश्च / तेषां स्वरूपमिदं वक्ष्यमाणं * भवति / इति गाथार्थः // 50 // तत्र स्त्रीवेदमाह पुरिसं पइ अहिलासो, उदएणं होइ जस्स कम्मस्स / , सो फुकुमदाहसमो, इत्थीवेयस्स उ विवागो // 51 // व्याख्या-'पुरुषं प्रति' पुरुषमङ्गीकृत्य 'अभिलाषः' इच्छाविशेषः, यद्यहं पुरुषं सेवयामीत्येवंरूपः, 'उदयेन' विपाकेन यस्य 'भवति' जायते 'कर्मणः' मोहनीयविशेषस्य, 'सः' अभिलाषः फुस्फुमाया दाहः फुस्फुमादाहः तेन समः-तेन तुल्यः कारीपदाहसदृशः, यथा यथा '5 चाल्यते तथा तथा ज्वलति दहति च / एवमवलापि यथा यथा संस्पृश्यते पुरुषेण तथा तथाऽस्या अधिकतरोऽभिलापो जायते / अभुज्यमानायां तु छन्नकारीषदाहतुल्योऽभिलाषो मन्द इत्यर्थः / 'स्त्रोवेदस्य तु' योषिद्वदस्यैवायं 'विपाकः' अनुभवः / इति गाथार्थः // 51 // पुरुषवेदस्वरूपमाह