________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे बादरस्ततः 8 / अनिवृत्तिबादर ९था-ऽथ सूक्ष्मसंपरायकः 10 // 2 // ततः प्रशान्तमोहश्च 11 क्षीणमोहश्च 12 योगवान् 13 / अयोगवानिति 14 गुण-स्थानानि स्युश्चतुर्दश // 3 // मिथ्यादृष्टिभवेन्मिथ्या दर्शनस्योदये सति / गुणस्थानत्वमेतस्य, भद्रकत्वाद्यपेक्षया 1 // 4 // मिथ्यात्वस्यानुदयेऽनन्तानुबन्ध्युदये सति / सास्वाद- 5 नसम्यग्दृष्टिः, स्यादुत्कर्षापडावली 2 // 5 // सम्यक्त्वमिथ्यात्वयोगात् , मुहूर्त मिश्रदर्शन: 3 / अविरतसम्यग्दृष्टिरप्रत्याख्यानकोदये 4 // 6 // विरताविरतस्तु स्यात् , प्रत्याख्यानोदये सति 5 / प्रमत्तसंयतः प्राप्तसंयमो यः प्रमाद्यति 6 // 7 // सोऽप्रमत्तसंयतो यः, संयमे न प्रमाद्यति 7 / उभावपि परावत्या, स्यातामान्त. मौहर्तिकौ // 8 // कर्मणां स्थितिघातादो-नपूर्वान् कुरुते यतः / तस्मादपूर्वकरणः, 10 क्षपकः शमकश्च सः // 9 // यद्बादरकषायाणां, प्रविष्टानामिमं मिथः / परिणामा . निवर्तते निवृत्तिबादराऽपि तत् 8 // 10 // परिणामा निवर्तन्ते, मिथो यत्र न यत्ततः / अनिवृत्तिवादरः स्यात् , क्षपकः शमकश्च सः 9 / / 11 / लोभाभिधः संपरायः, सूक्ष्मकिट्टीकृतो यतः / स सूक्ष्मसंपरायः स्यात् , क्षपकः शमकोऽपि च 10 // 12 // अथोपशान्तमोहः स्यात् , मोहस्योपशमे सति 11 मोहस्य तु क्षये 15 जाते, क्षीणमोहं प्रचक्षते 12 // 13 // सयोगिकेवली घाति-क्षयादुत्पन्नकेवलः 13 / योगानां तु क्षये जाते, स एवायोगिकेवली 14 // 14 // " प्रतिपादितानि प्रस्तुतोपयोगीनि गुणस्थानानि / सम्प्रति सूत्रं व्याख्यायते-'यत्' यस्मात् परिणामः क्लिष्टो 'मिथ्यात्वात्' मिथ्यादृष्टिगुणस्थानाद्यावत्सास्वादनस्तावत् / अतः सास्वादनगुणस्थानेऽनन्तानुबन्धिनो व्यवच्छिन्नाः / सम्यग्मिध्यादृष्ट्यादिष्वेपामुदयोऽतः क्लिष्टपरिणामाभावान्नास्ति / इति गाथार्थः // 43 // 20 द्वितीयकषायानाह कोहो माणो माया, लोभी बीया अपञ्चखाणा उ / एयाणुदए जीवो, विरयाविरई न पावेइ // 44 // व्याख्या-क्रोधमानमायलोभा द्वितीयाः पृथ्वीराजिअस्थिमेषशृङ्गकर्दमतुल्याः अप्रत्याख्यानास्तु' सर्वथा विरत्यभावस्वरूपाः / तुशब्दः पुनःशब्दार्थः एतेषामित्यत्र संबन्धनीयः / 25 एतेषां पुनः उदये विपाके 'जीवः' प्राणी 'विरताविरति' देशविरतिं न प्रामोति, सम्यक्त्वं तु प्रामोति योग्यतायाम् / इति गाथार्थः // 44 // एतेषामुदये किमितिकृत्वा विरताविरतिं न प्रामोति ? इत्याह (पारमा०) क्रोधादयो द्वितीया अप्रत्याख्यानाः, उच्यन्ते इत्यध्याहारः / एषामुदये जीवो देशविरतिं न प्रामोति / इति गाथार्थः॥४४॥