________________ कषायमोहनीयभेदस्वरूपफलवर्णनम तमनुवन्धन्तीत्येवंशीला अन्तानुबन्धिनः / सूत्रे तु प्राकृतत्वाद्गाथाभङ्गभयाच वं पाठः / तुशब्दस्तु प्रथमेत्यत्र पुनःशब्दार्थः / 'एयाणं' इत्यत्र चार्थात्संबन्धनीयः / अनन्तानुबन्धिनां क्रोधमानमायालोभानां 'उदये' अनुभवे 'इह' मनुष्यलोके सम्यक्त्वं 'न प्राप्नोति' नासादयति / इति गाथार्थः / / 42 // तेषां चोदयो गुणस्थानक कियदुरं यावद्भवति ? इत्याह (पारमा०) क्रोधो मानो माया लोभः प्रथमाः, 'अणंतबंधीउ' इति, आर्षत्वादनन्तानुवन्धिनः / एतेषामुदये जीवः 'इइ' संसारे 'सम्यक्त्वं' उक्तस्वरूपं न प्राप्नोति / इति गाथार्थः // 42 // सम्प्रति येषु गुणस्थानेश्वेषामुदयो येषु च न इत्येतदाह जं परिणामो किट्ठो. मिच्छाओ जाव सासणो ताव। सम्मामिच्छाईसु, एसिं उदओ 'अओ नत्थि // 43 // व्याख्या-'यत्' यस्मात्कारणात् 'परिणामः' अध्यवसायः 'क्लिष्टः' अशुभतमः 'मिथ्यात्वात्' मिथ्यादृष्टिगुणस्थानकात्सकाशाद्यावत्सास्वादनः, सहास्वादनेन वर्तते सास्वादनः, सम्यक्त्व'मास्वाद्य पुनर्भवति अन्तमुहूर्तमात्रकालात् सास्वादनगुणस्थानकं यावत्ताव क्लिष्टप- 15 रिणामोऽनुवर्तते / ननु 'मिथ्यात्वात्' इति पञ्चम्येवावध्यर्थी लभ्यते तत्किमर्थ यावत्तावच्छन्दयो योरुपादानमिति ?, उच्यते- सापेक्षतया यावत्तावतोरुपादानमविरुद्धम् , अथवा मिथ्याहप्टिगुणस्थानकमवधिमवधिमत्सास्वादनगुणस्थानकम् , अवधिमत एव यावच्छब्दोऽवधिमन्वाभिव्याप्तिप्रदर्शकः तावच्छन्दस्तु तस्येवावधिमतः पर्यन्तप्रदर्शकः, संबन्धशब्दो वा, मिथ्या दृष्टिगुणस्थानकात्सकाशात्सास्वादनगुणस्थानकं यावद्भवति, न परतो भवति क्लिष्टाध्यवसायः, तत एव 20 निवर्तते इति तात्पर्यार्थः / ननु कथमिदमवसीयते ? इत्यत आह-'सम्यगमिथ्यात्वादिषु' सम्यग्मिध्याष्टिगुणस्थानकेषु, आदिशब्दादविरतादिगुणस्थानकेषु च एतेषां' अनन्तानुवन्धिनां उदयः, अनुभवः 'यतः' यस्मात्कारणात् 'नास्ति' न विद्यते इति युक्तिः / इति गाथार्थः // 43 // द्वितीयकपायोदये विरत्यभावमाह(पारमा०) एतद्वयाख्या च गुणस्थानात्सुज्ञाना इति गुणस्थाननामस्वरूपप्ररूपणाय शास्त्रान्त- 25 रश्लोकाः / तथाहि-"मिथ्याष्टिः 1 सास्वादन २-सम्यग्मिथ्याशावपि 3 / अविरतसम्यग्दृष्टिः 4, विरताविरतोऽपि च 5 // 1 // प्रमत्तश्चा 6 प्रमत्तश्च 7, निवृत्ति 1 व्याख्याकारेण तु "जओ" इत्येतत्पाठानुसारेण व्याख्यातम् जे० / 2 "मासाद्य" जे०।३ त्कृिष्टः परि० * जे / 4 बोल्लिकया यावत्ता० जे० / 5 सम्बन्धिशब्दो जे /