________________ 26] कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे व्याख्या-'क्रोधः' असहनरूपः, 'मानः' स्तम्भरूपः, 'माया' कुटिलस्वभावा, "लोभः' सश्चयशीलता, चत्वारोऽपि 'भवन्ति' जायन्ते 'चतुर्भेदाः' चतुर्विकल्पाः / 'अण' इति अनन्तानुबन्धि नश्चत्वारः, अनन्त-आसंसारं यावत् अनुबन्धः-प्रवाहो येषां तेऽनन्तानुबन्धिनः / अप्रत्याख्यानाश्चत्वारः-न विद्यते देशसर्वनिषेधरूपं प्रत्याख्यानं येषामुदये तेऽप्रत्याख्यानाः, 5 प्रसज्यनसमासस्य निषेधमात्रत्वात् / प्रत्याख्यानाचे ति प्रत्याख्यानावरणा गृह्यन्ते, यथा सत्यभामा भामेति, आङ्मर्यादायाम् / प्रत्याख्यानमा मर्यादया वृण्वन्ति-च्छादयन्ति येषामुदये सर्वप्रत्याख्यानं न भवति देशतस्तु भवति ते प्रत्याख्यानावरणाश्चत्वारः / संज्वलयन्ति यत्किंचिदेव स्वल्पमपि दुर्वचनादिकमासाद्योदयं यान्ति उपशाम्यन्ति च संज्वलनाश्चत्वारः / इति गाथार्थः // 41 // अनन्तानुबन्ध्युदये फलाभावप्रदर्शनायाह (पारमा०) क्रोधो मानो माया लोभश्चत्वारोऽपि प्रत्येकं चतुर्भेदा भवन्ति / कथम् ? 'अण' इति अनन्तानुबन्धिनः, तत्रानन्तं संसारमनुबघ्नन्तीत्येवंशीला अनन्तानुबन्धिनः / तथा 'अप्रत्याख्यानाः' प्रत्याख्यानं च द्विधा, देशविरतिसर्वविरतिभेदात् / तत्र देशविरतिः सर्वविरत्यपेक्षयाऽल्पं प्रत्याख्यानम् , ततश्च न विद्यतेऽल्पमपि प्रत्याख्यानं यदुदयात्ते तथा / 15 यत उक्तम्-"नाल्पमप्युत्सहेद्यषां, प्रत्याख्यातुमिहोदयात् / अप्रत्याख्यानसंज्ञाऽतो द्वितीयेषु निवेशिता।।१॥" अथवाऽल्पं प्रत्याख्यानमप्रत्याख्यानम् , तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणा अप्येते तदाह-'आवण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य / तेनाऽप्रत्याख्यानावरणास्ते ननिह सोऽल्पाथः / / 1 / / ' 'प्रत्याख्यानाः' इति प्रत्याख्यानावरणाः, प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्तीति, बहुलवचनात्कर्तर्यनट् / तथा 'संज्वलनाः' सं. ईपत्परीषहोपसर्गसंसर्गे चारित्रिणमपि ज्वलयन्तीतिकृत्वा / इति गाथार्थः // 41 // सम्प्रत्याद्यान् विशेषेणाह कोहो माणो माया लोभो पढमा अणंतबंधीउ / एयाणुदए जीवो इह सम्मत्तं न पावेइ // 42 // व्याख्या-क्रोधमानमायालोमा उक्तस्वरूपाः 'प्रथमास्तु' आद्यास्तु पर्वतराजिशैलस्तम्भ- 25 धनवंशकुडङ्गिकृमिरागाः 'अनन्तानुषन्धिनः अनन्तं-संसारं कर्म वा बभन्तीत्येवंशीला अनन्तबन्धिनः / 'अनन्तानुवन्धिनः' इति वा पाठो द्रष्टव्यो व्याख्यायाम् / सा चेयम्-अनन्तः अन- . न्तकालं यावत् , अनुबन्ध-श्चित्तस्याशुभोऽनुशयः प्रवाहोऽनन्तकालेनापि पश्चानिवृत्तिनं भवति, 1 'लोमः' अतिसञ्चय० जे० / 2 सज्वलन्ति जे० / 3 उपशमन्ति जे० / 4 व्याख्याकारेण तु “पढमा अगंतबंधी उ" इति पाठानुसारेण व्याख्यातम् / /