________________ चारित्रभहनीयभेदाः जापि य चरित्तमोहं. 'तंपि हु विह समासओ होइ / सोलस जाण कमाया, नव भेया नोकसायाणं // 40 // व्याख्या-यदपि च चरित्रमोहं यदिति प्रागभिहितं चरित्रमोहं, अपिशब्दः संभावने ममुच्चये वा, 'चः' पादपूरणे, चरेरित्रनप्रत्ययान्तस्य चरित्रमिति रूपम् / 'निरुक्तं तु चितस्य 5 कर्मणो रिक्तीकरणाच्चरित्रं व्रतं नियमो वाऽर्थः, तदपि 'समासेन' संक्षेपेण द्विविधं 'भणितं' प्रतिपादितम् / तुशब्दान्न केवलं मोहनीयं, चरित्रमपि द्विप्रकारमेव / षोडश 'जानीहि' विद्धि 'कषायान्' क्रोधमानमायालोभान प्रत्येकं चतुर्विकल्पान् / ते चामी-"जलरेणुपुढविपन्वयराईसरिसो.चउविही कोहो / तिणिसलयाकट्टियसेलत्थंभोवमो माणो // 1 // मायावलेहिगोमुत्तिमिदसिंगघणवंसमूलसमा। "लोहो हलिइ खंजणकद्दमकिमिराग 10 सारिच्छो // 2 // पक्रवचउमासवच्छरजावजीवाणुगामिणो कमसो / देवनरतिरियनारयगइसाहणहेयवो भणिया / / 3 / / " इति / षट् च दश च षोडश, पस्य उत्वं दस्य डत्वं निपातनात् , षडधिका दश षोडश, कपो-भवस्तस्यायो-लाभो येषु सत्सु तान् / तथा नव 'भेदाः' विशेष। नोकपायाणाम् / कषाया 'नो भवन्ति नोकषायाः, प्रतिषेधवाचको नोशब्दः, वेदत्रयहास्यादिरूपाः, तानिमान् स्त्रीपुनपुसकवेदहास्यरत्यरतिशोकमयजुगुप्सादीन् / इति 15 गाथार्थः // 40 // षोडशकषायभेदानाह-- (पारमा०) यदपि च चरित्रमोहं तदपि द्विविधं, न केवलं मोहनीयं दर्शनमोहनीयचरित्रमोहनीयभेदाद् द्विविधम् / चरित्रमोहनीयमपि हुशब्दस्यैवकारार्थत्वाद् द्विविधमेव समासतो भवति, कपायनोकषायभेदात् / तांश्चोत्तरार्द्धनाह-'षोडश' षोडशसंख्यापरिच्छिन्नान जानीहि, क्रोध- 20 मानमायालोभानां चतुर्णामपि प्रत्येकं चतुर्विधत्वात् / कष्यन्ते हिंस्यन्ते परस्परं प्राणिनोऽस्मिन्निति कषः संसारः, तं अयन्ते गच्छन्ति जन्तव एभिरिति कषायास्तान् , नव भेदान् नोकषायाणां वेदत्रयहास्यादिषट्कलक्षणान् , जानीहीति अत्रापि संबध्यते / इति गाथार्थः // 40 // कषायान्नामोद्देशेनाह कोहो माणो माया, लोभो चउरोवि हुँति चउभे या / 25 अगअप्पचक्खाणा, पञ्चक्खाणा य संजलणा // 41 // 1 "तंपि समासेण होइ दुविहं तु" इत्यपि पाठो दृश्यते, व्याख्याकारेण तु “तंपि समासेण दुविह भणिवं तु" इति पाठानुसारेण व्याख्यातम् , अत्र 'दुविह' इति पदं प्राकृतत्वाल्लुप्तविभक्तिकं ज्ञेयम् / 2 चरेरित्रचप्रत्य० जे० / 3 “पदभञ्जकं" जे० टिप्पणी। 40 मो वेत्यर्थः, तदपि जे० / 5 लोमो जे०। 6 न जे०।