________________ 34] कर्मविपाकाख्यं प्रथमै कर्मग्रन्थे राग नवि जिणधम्मे 'नवि दोसं जाइ जस्स उदएणं / सो मीसस्स विवागो, अंतमुहुत्तं भवे कालं // 38 // व्याख्या-'राग' प्रीतिलक्षणं 'नापि' नैव, अपिशब्दस्यैवकारार्थत्वात् , 'जिनधर्मे तीर्थक्रद्धर्मे 'न च' नैव 'द्वेषं' अप्रीतिलक्षणं 'याति' गच्छति 'यस्य' कर्मणः 'उदयन' 5 प्रादुर्भावेन, स मिश्रस्य 'विपाकः' अनुभव उदयो वा / स च भवन कियन्तं कालं यावद्भवति ? अत आह-अन्तर्मुहूर्तमानं कालं मुहूर्तस्यान्तः द्विघटिको मुहूर्तस्तस्य मध्यः / इति गाथार्थः // 38 // मिथ्यात्वस्वरूपमाह-- (पादमा०) 'राग' नापि प्रीतिलक्षणं जिनधर्म नापि 'द्वेषं अप्रीतिलक्षणं गच्छति, किन्तु . . मध्यस्थपरिणामः यस्य' कर्मण उदयेन भवति स मिश्रस्य 'विपाकः' उदयः ‘अन्तर्मुहूर्त भवेत्कालं' किश्चिन्न्यूनघटिकाद्वयलक्षणम् , तत ऊर्ध्वमवश्यं मिथ्यात्वे वा गमनात् / इति गाथार्थः // 38 // मिथ्यात्वमाह-- "जिणधम्ममि पओसं. वहइ य हियएण जस्म उदएणं / तं मिच्छत्तं कम्मं, संकिट्ठो तस्स उ विवागो॥३९॥ 15 व्याख्या-'जिनधर्मस्य' वीतरागधर्मस्य 'प्रद्वेष' मत्सरं 'वहति च' याति च 'हृदयेन' चेतसा, करोतीत्यर्थः 'यस्य' कर्मणः ‘उदये' विपाकानुभवे / चकरान्न केवलं हृदि प्रद्वषं वहति, तदुदयजनितं कार्य चावर्णवादादि शासनस्य विधत्ते, 'तन्मिथ्यात्वं कर्म मिथ्याऽलीकं विपरीतं वा तत्त्रपरिज्ञानं यस्मिन् तन्मिथ्यात्वं, ' संक्लिष्टः' अशुभतरः, तुशब्दस्य पुनःशब्दार्थत्वात्तस्य पुनः 'विपाकः' अनुभव उदयो वा / तदुदयेऽवश्यमशुभरूपस्य कर्मणो२० बन्धो भवति / इति गाथार्थः // 3 // उक्तं दर्शनमोहम् , साम्प्रतं चारित्रमोहमाह (पारमा०) जिनधर्मे प्रद्वषं वहति हृदयेन 'यस्य' कर्मणः 'उदयेन' विपाकवेदनेन / चकारान्न केवलं हृदि प्रद्वपं धारयति तत्फलमपि चावर्णवादादि करोति, तन्मिथ्यात्वं कर्म, संक्लिटस्तस्य पुनर्विपाकः, नरकादिप्रापकत्वात् / इति गाथार्थः // 36 // दर्शनमोहनीयं त्रिविधमप्युक्त्वा चारित्रमोहनीयं गाथाऽऽद्यदलेनाह - - 1 व्याख्याकारेण तु-"न य” इति पाठनुसारेण व्याख्यातम् / 2 'हवइ कालं' इत्यपि पाठः / 3 'जिणधम्मस्स पओसं वहई उदएण जस्स कम्मस्स' / इत्यपि पाठः /