________________ मोहनीयस्वरूपभेदाः सम्यक्त्वमोहनीयस्वरूपञ्च [ 23 व्याख्या-'दृशिर प्रेक्षणे' दृष्टिदर्शनं यथाऽवस्थितवस्तुपरिच्छेदः, तन्मोहयति यत्कर्म येन कर्मणाऽन्यथास्थितं वस्तु अन्यथा परिच्छिद्यते तदर्शनमोहम् / तच त्रिविधम् , 'सम्म मीसं च तह य मिच्छत्तं' सम्यक्त्वं सम्यग्मिथ्यात्वं तथा मिथ्यात्वं चेति / चस्य परतः संबन्धः / शुद्ध अविशुद्धं 'अविशुद्धं चेति / तत्र मिथ्यात्वपुद्गला एव शोधिताः कारणाभावे / विकाराजनकत्वेन शुद्धाः सम्यक्त्वमुच्यते 1 / तथा त एवार्द्धविशुद्धाः स्वरूपतः किञ्चिद्विकारजनकत्वेन अर्द्धविशुद्धं सम्यग्मिथ्यास्वमुच्यते 2 / त एव मिथ्यात्वपुद्गला अतत्त्वेषु तत्त्वाभिनिवेशरूपाः अविशुद्धं मिथ्यात्वमुच्यते, विषविकारतुल्यमिति तात्पर्यम् 3 'यथाक्रमशो' यथा परिपाट्या वक्ष्यते / इति गाथार्थः // 36 // हेतुद्वारेण सम्यक्त्वस्वरूपं समर्थयन्नाह (पारमा०) दर्शनमोहं त्रिविधम् / 'सम्यग' इति सम्यक्त्वम् , सम्यगित्येतस्य भावः सम्यक्त्वम् , इत्यतो 'मिथ' सम्यग्मिथ्यात्वम् / तथा मिथ्यात्वं च, शुद्धं अर्द्धविशुद्धं अविशुद्धम् , 'तद्यथा क्रमशः' इति सम्यक्त्वं शुद्धं, मिश्रम विशुद्धं, मिथ्यात्वमविशुद्धम् / इति गाथार्थः / / 36 / / सम्यक्त्वस्वरूपमाह-- केवलनाणुवलद्ध, जीवाइपयत्थ सद्दहे जेणं / तं सम्मत्तं कम्म, सिवसुहसंपत्तिपरिणामं // 37 / / व्याख्या-केवलमसहायं ज्ञानं केवलज्ञानम् , तेनोपलब्धा ज्ञातास्तीर्थकृद्भिर्ये जीवादिपदार्थाः तानागमान्निसर्गाद्वा विज्ञाय 'श्रद्दधीत' प्रतिपद्येत 'येन' कर्मणा हेतुभूतेन तत्सम्यक्त्वं कर्म यथाऽवस्थितवस्तुपरिच्छेदात्मकं प्रतिपत्तिरूपं सम्यग्दर्शनमित्यर्थः / शिवं निरुपद्रवस्थानं 20 मोक्षः तस्मिन् सुखं परमानन्दरूपं तस्य संप्राप्तिरवाप्तिः सा परिणामो यस्य तत् शिवसुखसं. प्राप्तिपरिणामम् / इति गाथार्थः // 37 // मिश्रस्वरूपमाह-- (पारमा०) केवलज्ञानेनोपलब्धानधिगतानर्थान् / केवलिभिर्जीवादिपदार्थान् जीवाजीवपु. ण्यपापासवसंवरनिर्जराबन्धमोक्षलक्षणान् श्रद्दधीत 'येन' कर्मणा हेतुभूतेन तत्सम्यक्त्वं कर्म / 25 विशेषणद्वारेणैतत्फलमाह-'शिवसुखसंप्राप्तिपरिणाम शिवसुखसंप्राप्तिः परिणामः परिणतिर्यस्य / इति गाथार्थः // 37 // मिश्रमाह 1 अविशुद्ध मिथ्यात्वपुद्गला एव शो० जे० जि० / 2 वक्ष्ये इति जे० /