________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे - (पारमा०) एतत् सातासातरूपं 'इह' प्रवचने वेदनीयमुच्यत इति गम्यते, चतुर्थकम भवति मोहनीयं तन्मद्यपानसदृशं यथा भवति तथा निशमयत / इति गाथार्थः // 33 // जह मजपाणमढो, लोए पुरिमो परब्बमा होइ। तह मोहेण वि मूढो, जीवो वि परबमो होइ // 34 // . व्याख्या-यथा 'मद्यपानमूढः' मद्य-मासवविशेषः, तस्य पान='घुटनं तेन मूढो मोहितो व्याप्तो 'लोके' मनुष्यलोके 'पुरुषः' मनुष्यः 'परवशः' परायत्तो, वकारस्य प्राकृतत्वाद् रुत्वम् , 'भवति' जायते 'तथा' तेनैव प्रकारेण मोहेनापि 'मूढः' छादितस्वरूपः 'जीवः' प्राणी 'परवशः' आत्मानायत्तः भवति' संपद्यते / इति गाथार्थः // 34 // मोहनीयस्वरूपं सभेदमाह (पारमा०) यथा 'मद्यपानमूढः' मद्यपानेन नष्टचेतनो लोके पुरुषः 'परवशः' परायत्तो भवति तथा मोहेनापि मृ8ो जीवोऽपि परवशो भवति इति गाथार्थः // 34 // संप्रति शब्दार्थकथनपूर्वकं मोहनीयग्य द्वैविध्यं तावदाह मोहेइ मोहणीयं, तंपि समासेण भण्णए दुविहं। दसणमोहं पढमं चरित्तमोहं भवे बीयं // 35 // 15 व्याख्या='मुह वैचित्ये' 'मोहयति' वैचित्यमुत्पादयत्यात्मन इतिकृत्दा मोहनीयम् / तदपि 'समासेन' संक्षेपेण भवति 'द्विविघं' द्विप्रकारम्' / द्वविध्यमेवाह-दर्श नमोहं 'प्रथम' आद्यम् , चरित्रमोहं भवेत् द्वितीयं' अप्रथमम् / इति गाथार्थः // 35|| प्रथमस्वरूपमाह-- (पारमा०) 'मोहयति' वैचित्यमापादयतीति मोहनीयम् / तदपि 'समासेन' संक्षेपेण 20 'भण्यते' प्रतिपाद्यते द्विविधम् / दृश्यते यथावदलोक्यते वस्त्वनेनेति दर्शनम् , तन्मोहयति मूढतां नयति यत्कर्म तदर्शनमोहं प्रथमम् / चर्यते तदिति चरित्रम् , त-मोहयति यत्कर्म तच्चरित्रमोहं द्वितीयम् / इति गाथार्थः / / 35 / / संक्षेपतो मोहनीयस्य द्वविध्यमभिधाय प्रथमं दर्शनमोहनीयभेदानाह दंमणमोहं तिविहं, सम्म मीसं च तह य मिच्छत्तं / सुद्ध अद्धविसुद्ध, अविसुद्धतं जहाकममो // 36 // . ___ 1 घोट्टनं जे० घुण्टनं जि०। 2 व्याख्याकारेण तु “होइ दुविहं तु” इत्यपि पाठः, तदनुसारेण व्याख्यातम् /