________________ वेदनीयद्वयस्वरूपं मोहनीयस्वरूपच [21 ग्रथा नरामरगतौ सातोदयोऽस्ति तथा-ऽसातोदयोऽपीति प्रधान्यानोक्तस्तथा नारकतिर्यग्गतौ सातोदयः / इति गाथार्थः // 31 // नारकतिर्यग्गत्योदु:खस्वरूपमाह__ (पारमा०) देवेषु मनुष्येषु च' इति देवमनुजगत्योः, 'तस्थ विसिह सु काम- 5 भोगेसु' इति अत्र द्वितीयार्थे सप्तमी। विशिष्ठान 'कामान्' शब्दरूपलक्षणान् , 'भोगान्' गन्धरसस्पर्शलक्षणान . यदागमः-"कइविहा गं भंते ! कामा पन्नत्ता ? गोयमा! दुविहा कामा पन्नत्ता, सद्दा स्वा य / कइविहा णं भंते ! भोगा पन्नत्ता ? गोयमा ! तिविहा भोगा पन्नता, तंजहा-गंधा रसा फासो य” इति / यदुपभुङ्क्ते जीवः, स तु विपाकः सातस्यैव / देवेषु च मनुजेषु च, इत्यत्र चकारावनुक्तसमुच्चये तेन नरकेष्वपि१० नारकाणां जिनजन्ममहादौ, तिर्यक्ष्वपि पट्टहस्त्यादीनां सुखसंवेदनं सातविपाकः / इति गाथार्थः // 31 // नरकतिर्यग्गत्योरसातमाह 'नरएसु य तिरिएसु य, तेसु य दुक्खाई णेगरूबाई / जं उवभुजइ जीवो, सो उ विवागो असायस्स // 32 // 15 व्याख्या-नरान् कायन्ति शब्दयन्ति नरकास्तेषु,तथा तिरश्चीनमश्चन्ति गच्छन्ति-तिर्यश्चस्तेषु च, 'दुःखानि' 'असातवेदनीयानि 'अनेकरूपाणि' नानारूपाणि यत्तद्भुनक्ति जीवः, सः 'तु' पुनः 'विपाकः' अनुभवः 'असातस्य' दुःखस्य / इति गाथार्थः // 32 // ... मोहनीययुक्तस्य जीवस्य विपरीतस्वरूपं दृष्टान्तेन प्रकटयन्नाह _ (पारमा०) 'नरकेषु' नरकगतौ तिर्यक्षु' तिर्यग्गतौ 'तेसु य' इति न केवलं नरकगति-२० तिर्यग्गत्योः 'तयोश्च' देवमनुजगत्योदुःखान्यनेकरूपाणि यदुपभुङ्क्ते आभियोग्यदारिद्रयादि जीवः, स तु विपाकोऽसातस्य / इति गाथार्थः, // 32 // वेदनीयं निगमयन् मोहनीयप्रस्तावनामाह-- एयमिह वेयणीयं, चउत्थकम्मं तु होइ मोहणियं / तं मजपाणसरिसं, जह होइ तहा निसामेह // 33 // 24 व्याख्या-एतदस्मिन् वेदनीयमुक्तम् / चतुर्थ कर्म पुनर्भवति मोहनीयं, तन्मद्यपानसदृर्श यथा भवति तथा 'निशमयत / इति गाथार्थः // 33 // . 1 'तिरिएसुय नरएसु य तेसिं दुक्खाई' इत्यपि पाठो दृश्यते / 2 असातावे० जे० / 3 एयमिह सटी केयं गाथा जे० प्रतौ नास्ति / 4 निशामयत जि०॥