________________ 18 / ___कमविपाकाख्ये प्रथमे कर्नग्रन्थे व्याख्या-निद्र पञ्चकमेतदुक्तस्वरूपम् / चक्षुप आवरणं चक्षुरावरणं, चक्षुर्दर्शनावरण मिति दर्शनशब्दोऽत्र द्रष्टव्यः, यत्कर्ष चक्षुईर्शनं छादयति तच्चक्षुरावरणमुच्यते / शेषेन्द्रियाणामावरण शेषेन्द्रियावरणम् , अतस्तेषां घाणर'सनस्पर्श श्रवणमनसामावरणं छादनं भवत्यचक्षुषः 'आव. रणं' स्थगतम् / इति गाथार्थः / / 25 / / ____ उक्त चारचक्षुर्दर्शनावरणम् / साम्प्रतमवधिदर्शनावरणस्वरूपमाह (पारमा०) निद्रापञ्चकमेतत् पूर्वोक्तम् / एतच्च सूत्रकृता क्रमेण नोक्तम् / क्रमश्चैवम्निद्रा प्रचला निद्रानिद्रा प्रचलाप्रचला स्त्यानद्धिरिति / यथोत्तरं विपाकाधिक्यात् ।।तथा च सति स्त्याचित्रिकमित्युक्ते स्त्यानचिसहचरितं निद्रानिद्राप्रचलाप्रचलास्त्यानद्धिलक्षणं प्रबलविपाकं निद्रात्रिकं परिगृह्यते / आगमेऽप्येवमेवासां क्रमः / तथाहि-"निदा तहेव पयला निद्दानिद्दा 10 य पयलपयला य। तत्तो य थोणगिडी, उ पंचमा होइ नायचा // 1 // " अत्र तूत्क्रमाभिधानमनानुपूळपि व्याख्याङ्गमिति न दोषः / चक्षुरिति चक्षुर्दर्शनं, तद् ‘आवृणोति' आच्छादयतीति चक्षुर्दर्शनावरणम् / शेषेन्द्रियमिति शेषेन्द्रियदर्शनम् / शेषाणि स्पर्शनरसनघ्राणश्रोत्रमनांसि तेषामावरणं भवति 'अचक्षरावरणं' अचक्षुर्दर्शनावरणम् / इति गाथार्थः / / 25 / / अवधिदर्शनावरण केवलदर्शनावरणे व्याचिख्यासुराह सामन्नु वओगं जं, वरेइ तं ओहिदंसणावरणं / . केवलसामन्न जं, वरेइ तं केवलस्स भवे // 26 // व्याख्या-उपयुज्यतेऽसावित्युपयोगः, सामान्यश्वासावुपयोगश्च सामान्योपयोगोऽवधेरिति गम्यते / तं 'सामान्योपयोग' सामान्यपरिच्छेदं यद् 'वृणोति' छादयति कर्म तद् 'अव. घिदर्शनावरणं' अवधिसामान्यावबोधावरणं भवेदिति संबन्धः / 'केवलसामान्य' केवलदर्शनं 20 'वृणोति' छादयति यत्कर्म तत् 'केवलस्य' केवलदर्शनस्यावरणं 'भवेत्' भवति जायते / इति गाथार्थः // 26 // उक्तं द्वितीयकर्म, तृतीयमाह (पारमा०) सामान्यमविशेषग्राहि रूपिद्रव्याणामिति गम्यते, रूपिद्रव्यसामान्यमित्यर्थः / . तस्योपयोगो रूपिद्रव्यसामान्यग्रहणमिति यावत् / तत् कर्मभूतं यदावृणोति तदवधिदर्शनावर- 25 णम् / केवलस्यक्तरूपस्यो सामान्यं सकलजगद्भाविवस्तुस्तोमग्रहणरूपं केवलदर्शनमित्यर्थः / यद् 'घृणोति' आच्छादयति तत् 'केवलस्य' इति केवलदर्शनस्य भवेदावरणमिति संबन्धः / इति गाथार्थः // 26 // 1 सस्पर्शश्रव० जे०।