________________ निद्रापञ्चक-चक्षुरचक्षुर्दशेनावरणस्वरूपम् [17 व्याख्या-'सुखप्रतिषोधो निद्रा' प्रसुप्तः सन् सुखेनैव यस्यां प्रबोधं गच्छति मा निद्रा / द्वितीया पुनर्निद्रानिद्रा च भवति ज्ञातव्या / इति गाथार्थः // 22 // द्वितीयनिद्रालक्षणमाह-तस्या उदये दुःखेन बोध्यते प्रसुप्तः सन् / प्रकण चलनं यस्यां सा 'प्रचला' सा पुनः का ? या 'स्थितस्य' अवस्थितस्यावस्थितवतः "उन्हावति'उद्गच्छति उत्पद्यते उद्भवतीत्यर्थः / 5 प्रचलाप्रचला चतुर्थी निद्रा, तस्याश्चोदयः 'चमणे' गमने भवति, यस्या 'उदयेन पुनः पुनः प्रचलनं भवति, सा च प्रचलाप्रचलोच्यते / इति गाथार्थः // 23 // स्त्यानर्द्धिस्वरूपमाह'स्त्यानं कठिनीभृतमृद्धि चित्तं यस्यां मा 'स्यानडिः सा पुनः 'दिनचिन्तितस्य' दिवसध्यातस्य 'अर्थस्य प्रयोजनस्य 'साधन निष्पादनी 'प्रायः' बाहुल्येन / अनुस्वारः प्राकृतत्वात् / मा संक्लिष्टस्याशुभस्य कर्मणः 'उदयतः' प्रादुर्भावात् 'भवति' जायते 'नियमेन' अवश्यं- 10 तया / इति गाथार्थः // 24 // निद्रापञ्चकं निगमयन् चक्षुर्दर्शनाद्यावरणस्वरूपमाह-- (पारमा०) सुखेन प्रतिबोधो जागरणं यस्मिन् स्वापे स सुखप्रतिबोधः नखच्छोटिकामात्रेण जागरणं, स च निद्रा नितरां द्राति कुत्सितत्त्वं अविस्पष्टत्वं गच्छति चैतन्यमनयेति / द्वितीया पुनर्निद्रा निद्रातोऽतिशायिनी निद्रा निद्रानिद्रा / मयूरव्यंसकादित्वान्मध्यपदलोपी समासः 15 // 22 // दुःखेन घोलनादिभिर्बोध्यते यस्यां सा दुःखबोधनीया / अत एव सुखप्रतिबोधनिद्रातोऽतिशायित्वम् / प्रचलति घूर्णतेऽस्यामिति 'प्रचला' पुनः 'स्थितस्य' उपविष्टस्य ऊर्वस्थस्य वा 'उद्धावति' प्राबल्येनायाति न तु गतिमतः / प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला चतुर्थी, तस्या उदयश्चङ्कमणे / अत एव स्थानस्थितस्वप्तृभवप्रचलातोऽतिशायित्वम् // 23 // स्त्याना पिण्डीभूता ऋद्धिः आत्मनः शक्तिरूपा यस्यां स्वापावस्थायां सा 'स्त्यान ढि:' सा च 20 पुनर्दिनचिन्तितस्या-ऽर्थस्य साधनी प्रायः / श्रूयते च सिद्धान्ते-यथा कोऽपि क्षुल्लको दिवा द्विरदखलीकृतस्तस्मिन् बद्धाभिनिवेशो रजन्यां रत्यानद्वयु दयावेशादुत्थाय तद्दन्तमुशलयुगलमुत्पाट्यो. पाश्रयद्वारि विहाय पुनः सुप्त इत्यादि / सा संक्लिष्टकर्मण उदयाद्भवति 'नियमेन' अवश्यं, ततो नरकगमनात् / इति सार्द्धगाथाद्वयार्थः // 24 // . निद्रापञ्चकं निगमयन् चक्षुर्दर्शनावरणमाह निदापणगं एयं, चक्खू आवरइ चक्खुआवरणं / ससिदियआवरणं, होइ अचक्खुस्स आवरणं // 25 // 1 उदये पुनः / 2 स्त्याना कठिनीभूतचैतन्यऋद्धिर्यस्यां सा जे० /