________________ केवलज्ञानावरणीयम्वरूपभेद-दर्शनावरणस्वरूपभेदाः दंमणमीले जीवे, दसणघायं करेइ जं कम्मं / तं पडिहारसमाणं, दसणवरणं भवे बीयं // 19 // व्याख्या-''दर्शनशोले' दर्शनस्वभावे 'जोवे' प्राणिनि दर्शनधात' दर्शनहननं 'करोति' विदधाति 'यत्' कर्म तत् "प्रतीहारसमान' प्रतीहारतुल्यं 'दर्शनावरण' दर्शनच्छादनं 5 'भवति जायते जीवस्य / इति गाथार्थः // 19 // "दृष्टान्तमाह (पारमा०) दर्शनं शीलं स्वभावो यस्य स तथा 'दर्शनशील' इति षष्ठीसप्तम्योरथं प्रत्यमंदादर्शनशीलस्य जीवस्येत्यर्थः / एवमन्यत्रापि भावनीयम् / दर्शनघातं करोति यत्कर्म तत्प्रतीहारमामानं दर्शनावरणं भवेद् द्वितीयम् / इति गाथार्थः // 19 // प्रतीहारसाम्यं च तद्धर्मावगमे सुज्ञानम् , अतस्तत्स्वरूपं दृष्टान्तेनाह जह रण्णो पडिहारो. अणभिप्पेयस्स सो उ लोयस्स / रणो तहि दरिसावं, न देइ दट्ठपि कामस्स // 20 // व्याख्या-यथा 'राज्ञः' भूपतेः 'प्रतीहारः' राजदौवारिकः 'अनभिप्रेतस्य' अनभीष्टस्य 'स तु' स एव दौवारिको लोकस्य' प्राणिसमूहस्य 'राक्षः' भूभृतः 'तत्र' तस्मिन् स्थाने 'दर्शन' 15 राज्ञो निरीक्षणं 'न ददाति' न प्रयच्छति 'द्रष्टुकामस्याऽपि' दर्शनाभिलाषिणोऽपि / राजा ह्य वं मन्यते यद्यह मेतं लोकं पश्यामि, लोकोऽप्येवमिच्छति यदि राज्ञा सह दर्शनं भवति तदा शोभनं भवति, निषेधकेन तथाऽपि प्रतीहारवैगुण्येन तदर्शनं न सम्पद्यते / इति गाथार्थः // 20 // दार्टान्तिकयोजनामाह (पारमा०) यथेति दृष्टान्तोपन्यासे सशब्दोऽग्रेतनोऽत्र योज्यते / ततो यथा स प्रसिद्धो 20 राज्ञः प्रतीहारोऽनभिप्रेतस्य लोकस्य 'तुः' एवकारार्थे भिन्नक्रमश्च योक्ष्यते 'राज्ञः' प्रतीतस्य 'तत्र' राजकुलादौ 'दर्शावं' दर्शनं दर्शः, अवनमावो दर्श आवो दर्शावो दर्शनप्रतीतिः, तां न ददात्येव द्रष्ट कामस्यापि राज्ञः राजा ह्यवं चिन्तयति यद्यहमेनं जनं निरन्तरमेवावलोकये / प्रतीहारस्त्वभिमरादिभयमुद्भाव्यान्तरायीभवति / इति गाथार्थः // 20 // दान्तिकयोजनामाह 1 "दर्शनशीलो दर्शनस्वभावो जीवः प्राणी" इत्यपि पाठः। 2 "प्रतीहारो दौवारिकस्तस्य समानं दर्शनावरणं, द्वितीयं भवति" इत्येवंरूपोऽपि पाठो दृश्यते / 3 दर्शनवरणं दर्शनाच्छादनं जे०। 4 "अमुमेवार्थ भावयति-" इत्यपि / / 5 मेनं जे० /