________________ 14 // कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे केवलज्ञानावरणमाह लोयालोयगएसु, भावेसुजं गयौं महाविमलं / तं आवरिय जेणं, केवलआवरणय 'तं पि // 17 // व्याख्या-लोकश्चतुर्दशरज्ज्वात्मको धर्मास्तिकायादियुक्तः, अलोकस्तु धर्मास्तिकायादिवियुक्तः लोकश्वालोकश्च लोकालोको, तयोर्गता लोकालोकगताः, तेषु 'भावेषु' पदार्थेषु 'यद्गत यहाश्रितं, महच्च तद्विमलं च 'महाविमलं' बृहदमलं तद् 'आतं' स्थगितं येन' कर्मणा केवलावरणकं तदपि' केवलाच्छादकं तदपि मन्तव्यमिति क्रियाध्याहारः / इति गाथार्थः / / 17|| मतिज्ञानाद्यावरणं निगमयन् दर्शनावरणस्वरूपमाह (पारमा०) लोकालोकगतेषु 'भावेषु' जीवाजीवादिषु 'यद्गतं' स्थितं अनन्तत्वात् / ननु चालोके किमनेन गतेन ? तत्र जीवाजीवादिपरिच्छेद्याभावात् , नैवम् , अजीवस्यालोकाकाशस्य विद्यमानत्वात् / तथा चोक्तम्-"लोकालोकव्यापकमाकाशम्" इति / "महाविमलं' अतिशुद्धं तदावरणमलकलङ्कापगमात् , तत्केवलज्ञानं 'आवतं' आच्छादितं 'येन' / कर्मणा तत्पुनः 'केवलावरणम्' सूचकत्वात्सूत्रस्य केवलज्ञानावरणम् / इति गाथार्थः // 17 // 15 ज्ञानावरणं निगमयन् दर्शनावरणप्रस्तावनामाह एवं पंचवियप्पं, नाणावरणं ममासओ भणियं / बीय दंसणवरणं, नवभेय भण्णए सुणह // 18 // , (पू०) व्याख्या-‘एवं' उक्तप्रकारेण 'पञ्चविकल्पं' पञ्चप्रकारं ज्ञानावरणं कर्म 'समासतः' संक्षेपतो 'भणितं' प्रतिपादितम् / द्वितीयं दर्शनावरणं कर्म, तच्च 'नवभेदं' नवप्रकार 20 'भण्यते' उच्यते, 'शृणुत' आकर्णयत यूयम् / इति गाथार्थः // 18 // दर्शनावरणस्वरूपमाहTb/ (पारमा०) एवं' उक्ताप्रकारेण 'पञ्चविकल्पं' पश्चभेदं ज्ञानावरणं कर्म ‘समासतः' संक्षेपतो 'भणितं' प्रतिपादितम् / द्वितीयं दर्शनावरणं 'नवभेदं नवप्रकारं भण्यते, शृत / इति गाथार्थः // 18 // संप्रति दर्शतावरणस्य पूर्वोद्दिष्ट प्रतीहारसाम्यमाह 1 परमानन्दसूरीणा तु–'तं तु' इति पाठानुसारेण व्याल्यानम् / / 2 केवलज्ञानावरणक' जे० / ,