________________ अधि-मनःपर्यवज्ञानावरणस्वरूपभेदाः ---(पू०) व्याख्या-अनुगमनशीलोऽनुगामी, वर्द्धनशीलो वर्द्धमानः, वर्द्धमान एव वर्द्धमानकः, * स्वार्थे कः / अनुगामी च वर्द्धमानकश्चानुगामिवर्द्धमानको, तौ च तौ भेदौ चानुगामिवर्द्धमानकभेदी, ता आदिषां भेदानां तेऽनुगामिवर्द्धमानकभेदादयः, तेषु 'वर्णितः' कथितः 'इह' प्रवचने व्याख्याप्रस्तावे वा। अनुस्वारः प्राकृतत्वात् / 'अवधिः' मर्यादापरिच्छेदलक्षणसं 'आवृणोति' 5 च्छादयति यदपि च कर्म 'अवध्यावरणकं तदपि' अवध्याच्छादकं तदपि ज्ञातव्यमित्यध्याहारः / इति गाथार्थः // 15 // उक्तमवधिज्ञानावरणम् / मनःपर्यवज्ञानावरणस्वरूपमाह-- (पारमा०) अवशब्दोऽधःशब्दार्थः / अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यवधिः / यद्वाऽवधिमर्यादा रूपिद्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा, तदुपलक्षितं ज्ञानमप्य- 18 वधिः / स च अनुगामिवर्द्धमानकभेदादिषु, इति तृतीयार्थे सप्तमी / ततश्चानुगामिवर्द्धमानकभेदादिभिः 'वर्णित:' प्रतिपादितः इहेति पूर्ववत् / तदावृणोति यत्कर्म तद् 'अवध्यावरणम्' अवधिज्ञानावरणमिति जानीहि / इति गाथार्थः // 17 // मनःपर्यवज्ञानावरणमाह___रिउमडविउलम'ईहिं, मणषजवनाणवण्णणं समए। तं आवरियं जेणं, तंपि हु मणपजवावरणं // 16 // __ (पू०) व्याख्या-ऋज्वी मतिर्यस्मिन् तदृजुमति, विपुला मतिर्यस्मिन् तद्विपुलमति / ऋजुमति च विपुलमति च ऋजुमतिविपुलमतिनी ताभ्यां, 'मनःपर्यवज्ञानवर्णनं' मनोगतभावपरिच्छेदकथनं 'समये' सिद्धान्ते प्रतिपादितं 'तदावृतं येन' तदाच्छादितं येन तदपि * 'हुः' पादपूरणे, 'मनःपर्यवावरणं' मनोगतभाव परिच्छेदकाच्छादफं जानीहि [इति] क्रिया- 28 ध्याहारः / इति गाथार्थः // 16 // अभिहितं मनःपर्यवज्ञानावरणम् / केवलज्ञानावरणस्वरूपमाह (पारमा०) पर्यवति-समन्तादवगच्छतीति पर्यवम् / मनसः पर्यवं मनःपर्यवम् , तच्च तज्ज्ञानं च मनःपर्यवज्ञानम् , तस्य वर्णनं प्रकाशकत्वादिगुणकथनं मनःपर्यवज्ञानवर्णनम् , ऋज्वी मतिरस्येति ऋजुमतिः, विपुला मतिरस्येति विपुलमतिः, ताभ्यां ऋजुमतिविपुलमतिभ्यां 25 कृत्वा 'समये' सिद्धान्ते क्रियत इति शेषः / यत उक्तं मनःपर्यवज्ञानप्ररूपणायाम्-"तं दुविहं तंजहा-उजुमई विउलमहे अ" इत्यादि / अशेषविशेषास्तु नन्दित एवावसेयाः, संक्षेपमात्रत्वादस्थेति / तदावृतं येन कर्मणा तजानीहि मनःपर्यवज्ञानावरणम् / इति गाथार्थः // 1 // 1 "ईहि य” इत्यपि पाठः / 2 "०वणियं” इत्यपि पाठः / 3 'तं पुण' इत्यपि 4 नापर्यवज्ञानावरणजे०५ परिच्छेदाच्छादकं जे।