________________ 12 ] कर्मविपाकास्ये प्रथमे कर्मग्रन्थे : मनोयुक्तस्य श्रुतं संज्ञिश्रुतम् 3 / तद्विपरीतममंज्ञिश्रुतम् 4 / सम्यग-ऽविपरीतं श्रुतं सम्यक्श्रुतम् , सम्यग्दृष्टेर्वा यच्छु तं तत्सम्यक्श्रुतम् 5 / तद्विपरीतं मिथ्याश्रुतम् 6 / सादि, आदियुक्तं श्रुतं मादिश्रुतम् , / 'अनादिश्रुतं, अविद्यमानादि श्रुतमनादिश्रुतम् 8 / सह पर्यवसानेन वर्तते यत्तत्मपर्यवसितम् 9 / तद्विपरीतं त्वपर्यवसितम् 10 / गमाः सदृशपाठविशेषाः, ते विद्यन्ते यस्य तत्र 5 वा भवं तद्गमिकम् 11 / तत्प्रतिपक्षस्त्वगमिकम् 12 / अङ्गप्रविष्ट अङ्गश्रुतम् 13 / तद्विपरीतं त्वनङ्गश्रुतम् 14 / एवंभूतमिदं श्रुतज्ञानमावृणोति-च्छादयति यज्ज्ञानं तच्छुतज्ञानावरणम् / इति गाथाभावार्थः // 14 // अवधिज्ञानावरणस्वरूपभेदानाह (पारमा०) श्रवणं श्रुतम् , अभिलापप्लावितार्थग्रहणहेतुरुपलब्धिविशेषः / एवमाकारं वस्तु 10 घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थम् , इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः / श्रुतं च तज्ज्ञानं च श्रुतज्ञानं चतुर्दशभेदेषु गतम् , इति द्वितीयार्थे सप्तमी / ततश्चतुर्दशभेदान प्राप्तं चतुर्दशभेदमिति यावत् / ते चामी-अक्षरश्रुतं, अक्षरश्रवणदर्शनादेरर्थप्रतीतिः 1 / अनक्षरश्रुतं, सेण्टितादिश्रवणान्मामाह्वयतीत्यादिरूपाभिप्रायपरिज्ञानम् 2 / समनस्कस्य मनोयुक्तेन्द्रिय- 15 जमुक्तरूपं श्रुतं संज्ञिश्रुतम् 3 / तदेवामनस्कस्य मनोरहितेन्द्रियजमसंज्ञिश्रुतम् 4 / सम्यग्दृष्टेजिनप्रणीतमितरद्वा श्रुतं यथास्वरूपागमात् सम्यक्श्रुतम् 5 / तदेव मिथ्यादृष्ट रंन्यथावगमान्मिथ्याश्रुतम् 6 / सादिश्रुतं, ज्ञानात्मकं सम्यग्दृष्टेरज्ञानात्मकं वा सम्यक्त्वच्युतस्य मिथ्यादृष्टेः 7 पूर्वमलब्धसम्यक्त्वस्य तु तदेवानादिश्रुतम् / 8 सपर्यवसितं भव्यानां केवलोत्पत्तौ ध्रुवं पर्यवसानात् 9 / अपर्यवसितमभव्यानां केवलोत्पादाभावात् 10 / अर्थभेदे सदृशालापकं गमिकम् 11 / 20 इतरदगमिकम् 12 / अङ्गप्रविष्टमाचाराद्यङ्गानि 13 / अनङ्गप्रविष्ट, शेषं प्रकीर्णकादि 14 / एवं चतुर्दशभेदं श्रुतज्ञानम् 'अत्र' जैनसमये 'वर्णितं' कथितम् / स चायम्-"अक्खरसन्नी सम्म, साईयं खलु सपज्जवसियं च / गमियं अङ्गपविट्ठ, सत्तवि एए सपडिवक्खा // 1 // " इति / तस्यावरणं यत्पुनस्तत् 'भुतज्ञानावरणम्' इति श्रुतज्ञानावरणं भवति द्वितीयम् / इति गाथार्थः॥१४॥ इदानीमवधिज्ञानावरणमाह अणुगामिवड्ढमाणय-भेयाइसु वण्णिओ इह ओही। तं आवरेइ 'जं तं, अवहीआवरणयं जाण // 15 // 1 अनादि, अविद्य० जे० / 2 “जं पि य ओहीआवरणयं तं पि” इत्येतत्पाठमनुसृत्य व्याख्याकारण व्याख्यातम् /