________________ मति-श्रुतज्ञानावरणयोभदाः स्वरूपञ्च [11 एव मौहूर्तिकः / ततो धारणा, 'स्मृतिः कालन्तरेऽर्थस्मरणरूपा अर्थाविच्युतिर्वा, साऽपि षड्विधा, असंख्यकालिकी संख्येयकालिकी वा / एवं सर्वेऽपि मिलिताश्चतुर्विंशतिभेदा व्यञ्जनावग्रहचतुर्भेदसहिता अष्टाविंशतिभेदा मतिज्ञानस्य जोयन्ते / एतच्चाष्टाविंशनिभेदभिन्नं मतिज्ञानं येन कर्मणा छाद्यते स्वकार्यजननं प्रति अकिश्चित्करं क्रियते तन्मतिज्ञानावरणम् / इति गाथाभावार्थः // 13 // 5 . उक्त मतिज्ञानावरणम् / श्रुतज्ञानावरणस्वरूपमाह- (पारमा०) 'मन ज्ञाने' मननं मतिः / यद्वा मन्यते इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः, योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः / मतिथासौ ज्ञानं च मतिज्ञानम् / तच्चाष्टाविंशतिभेदम् 'अत्र' जैने समये वर्णितम् / तद्यथा-अवग्रहईहाऽपायो धारणा च / तत्रावग्रहो द्विधा, व्यञ्जनावग्रहोऽर्थावग्रहश्च / तत्र व्यञ्जनावग्रहश्चक्षु- 10 मनोवर्जेन्द्रियाणां स्वविषयद्रव्येः सह संबन्धः, ततश्चतुर्धा नयनमनसोरप्राप्यकारित्वेन विषयसंबन्धाभावादस्य चेन्द्रियविषययोः संबन्धग्राहकत्वादिति भावः / अर्थावग्रहः, किमपीदमित्यव्यक्तं ज्ञानम् / स च मनःसहितेन्द्रियपञ्चकजन्यत्वात्पोढा / अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् ? स्थाणुः पुरुषो वा ?, इत्यादिवस्तुधर्मान्वेषणात्मको वितर्क ईहा / साऽपि मनःषष्ठेन्द्रियपञ्चकजन्या इत्यतः षोढे,व ) वस्तुनः स्थाणुरेवायं न पुरुषः, इति निश्चयात्मको बोधोऽपायः / 15 अयमपि पूर्ववत्षोढेव / निश्चितस्यैवाविच्युतवासनात्मकं धरणं धारणा | साऽप्युक्तरीत्या षोढेव / तदेवमर्थावग्रहादीनां चतुर्णा प्रत्येकं पड़िवधत्वाचतुर्विंशतिः / ततश्च व्यञ्जनावग्रहभेदचतुष्टयेन सहाष्टाविंशतिविधं मतिज्ञानम् / तथा चागमः-"पंचहि वि इंदिएहिं, मणसा अत्थोग्गहो मुणेगची / चक्विंदिय मणरहियं, वंजणमीहाइयं छडा" // 1 // इति तदेवमष्टाविंशतिभेदं मतिज्ञानमावृणोति यत्कर्म तदष्टाविंशतिभेदमपि सामान्येन मतिज्ञानावरणं भवति 'प्रथम' 20 आद्यम् / इति गाथार्थः // 13 // अधुना श्रुतज्ञानावरणमाह चोदसभेएसु गयं, सुयनाणं इत्थ वणियं समए / तस्सावरणं जं पुण, सुयआवरणं हवइ बीयं // 14 // (पू०) व्याख्या-चतुर्भिरधिका दश चतुर्दश, ते च ते भेदाश्च चतुर्दशभेदाः, तेषु 'गत' 25. स्थितं 'श्रतज्ञानं' प्रतीतं 'अत्र' कर्मव्याख्याप्रस्तावे 'वर्णितं' प्रतिपादितम् 'समये सिद्धान्ते, 'तस्य' श्रुतज्ञानस्य 'आवरण' छादनं यत्पुनः तच्छ्रुतावरणं भवति द्वितीयमिति गाथाक्षरार्थः / भावार्थस्त्वयम्-श्रुतज्ञानं चतुर्दशविधं प्रतिपादितं तद्यथा भवति तथा दर्श्यते श्रुतानुसारेण-अक्षररूपं श्रुतमक्षरश्रुतम् 1 / तत्प्रतिपक्षोऽनक्षरश्रुतं उच्छ्वसितादि 2 / संज्ञिनो 1 श्रुतिः जे० / 2 तिभेदा जे / 'मणवज्ज' इत्यपि /