________________ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे (पू०) व्याख्या-यथा 'निर्मलाऽपि' काचकामलादिदोषरहिताऽपि 'चक्षः' दृष्टिः ‘पटेम' वस्त्रेण केनापि' अनिर्दिष्टनाम्ना 'लादिता' स्थगिता सती मन्दं मन्दतरं पश्यति आवारकविशेषात / मा निर्मला यद्यपि स्वभावेन / इति गाथार्थः // 11 // उक्तो दृष्टान्तः, दार्टान्तिकयोजनामाह तथा मतिश्रुतज्ञानावरणं अवधिमन केवलानामावरणं यत्तज्जीवं 'निर्मलरूपं' शुद्रम्वरूपम् 5 .. 'आवृणोति' च्छादयति 'एभिभेदैः' वक्ष्यमाणलक्षणेः / इति गाथार्थः // 12 // मतिज्ञानभेदनिदर्शनद्वारेणावरणस्वरूपमाह- .. (पारमा०) यथा निर्मलमपि चक्षुः पटेन 'केनापि' मसृणममृणतरादिना छादितं सत् मन्दं 'मन्दतरक' मन्दतरमेव मन्दतरकं पश्यति तन्निर्मलं यद्यपि'चक्षुर्हि स्वभावनिर्मलमपि मसृणपटेनाच्छादितं मन्दं पश्यति मसृणतरेण तु मन्दतरमिति / चक्षुःशब्दस्य प्राकृतत्वात्स्त्रीत्वम् 10 // 11 // तथा मतिश्रुतज्ञानयोर्द्विवचनस्य बहुवचनं प्राकृतत्वात् / अवधिमनःकेवलानां मनःशब्देन मनःपर्यवमुच्यते, सूचनात्सूत्रस्य, मतिश्रुतज्ञानयोरवधिमनःपर्यवकेवलानां चावरणं तथेति / कोऽर्थः ? यथा यथा मतिज्ञानावरणादीनां निचितत्वं. तथा तथा पटावृतचक्षुष इवाल्पज्ञानं जीवस्य / एतदेवाह-जीवं 'निर्मलरूपं' अकलुषस्वभावमावृणोति 'एभिर्भदैः' अभिधास्यगानैः / मत्यादिव्युत्पत्तिस्तु व्याख्यानावसरे निरूपयिष्यते / इति गाथाद्वयार्थः // 12 // 15 सम्प्रति मतिज्ञानावरणं सप्रभेदमाह अट्ठावीसइभेयं, मइनाणं इत्थ वण्णियं समए। - तं आवरेइ जं तं, मइआवरणं हवइ पढमं // 13 // - (पू०) व्याख्या-अष्टाविंशतिभेदं मतिज्ञानं संख्यया 'अत्र' लोक 'वर्णितं' कथितं 'समये' सिद्धान्ते तद् 'आवृणोति' च्छादयति यत्तन्मत्यावरणं भवति 'प्रथम' आद्यम् / इति 20 गाथासमासार्थः / भावार्थस्त्वयम्-यदुक्तमष्टाविंशतिभेदं मतिज्ञानं तत्कथं स्यात् 1 उच्यते-आगमानुसारेण-व्यञ्जनावग्रहः, अर्थावग्रहश्च / तत्र व्यज्यन्ते व्यक्तीक्रियन्ते एभिरर्थाः व्यञ्जनानीन्द्रियाणि तैरवग्रहणमवग्रहः' सामयिकः, सामान्यार्थपरिच्छेदः व्यञ्जनावग्रहः / स च चतुर्विधो "नयनमनोवय॑म्" इति वचनात् / तथाहि-न चक्षुषाऽथों व्यज्यते-गम्यते प्राप्यते, अप्राप्रकारित्वाचक्षुषः / किन्तु योग्यदेशस्थमेव चक्षुर्योग्यदेशस्थमर्थ गृह्णाति साक्षात्करोति, न पुनः 25 प्राप्य गृह्णाति / प्राप्यग्रहणे चक्षुषः स्फोटादिरनिन्द्रियं चाधिष्ठानं स्यात् / तथा मनोऽप्येवमेव द्रष्टव्यम् , तस्याप्यप्राप्यकारित्वात् / अर्थस्यावग्रहणमवग्रहोऽर्थपरिच्छेदः / सोऽपि सामयिक एव। स च षड्विधः, इन्द्रियपश्चकेन मनसा चार्थग्रहणात् / तदुत्तरकालभाविनी ईहा, ईहनमीहा-चेष्टा कायवाङ्मनोलक्षणा / सा तु मौहूर्तिकी षड्विधा / तदनन्तरमपायो निश्चयः / सोऽपि षड्विध 1 हः एकसामयिकः, जे० / 2 ०वर्जम् / 3 प्राप्यं जे० / तस्याप्राप्या० जे० /