________________ प्रत्येकमूलकर्मणामुत्तरप्रकृतिसङ्ख्या स्वरूपवर्णनश्च पडपडिहारसिमजा-हडिचित्तकुलालभंडगारीणं / जह एएसिं भावा. 'कम्माण वि जाण तह चेव // 9 // (पू०)व्याख्या-पटः शाटकः, प्रतीहारो राजदौवारिकः, असिः खड्गम् , मद्य-मासवः, /3 हडि: "पोढकः, चित्रं-चित्रकर्म चित्रकरो वेति, कुलालः कुम्भकारः, भाण्डागारिको भाण्डागारे 5 नियुक्तः। पटश्च प्रतीहारश्वासिश्च मद्यं च-मद्यशब्दस्या-ऽऽकारोऽलाक्षणिकः प्राकृतत्वात , हडिश्च' चित्रं च कुलालश्च भाण्डागारी च द्वन्द्वः (एषां द्वन्द्वस्तेषां) / यथा एतेषां 'भावाः' स्वरूपाणि गर्भार्थाः कर्मणां 'तथा' तेनैव प्रकारेण 'मन्तव्याः'ज्ञातव्याः स्वरूपभेदाः। इति गाथार्थः॥९॥ पटादिदृष्टान्तानेव प्रकटयन्नाह (पारमा०) पटप्रतीहारअसिमद्यहडिचित्रमिति सूचनात्सूत्रस्य चित्रकरोऽभिधीयते, कुलाल- 10 भाण्डागारिकाणाम् / यथा एतेषां 'भावाः' आवारकादिस्वरूपाणि कर्मणामपि जानीहि तथा चैव / इति गाथार्थः // 9 // संप्रति ज्ञानावरणस्य पटौपम्यं भावयति सरउग्गयसमिनिम्मल-यरस्स जीवस्स छायणं जमिह / नाणावरणं कम्मं, पडोवमं होइ एवं तु // 10 // 15 (पू०) व्याख्या-शरदि उद्गतः शरदुद्गतः, स चासौ शशी च शरदुद्गतशशी, तस्मानिर्मलतरः तस्य, 'जीवस्य' प्राणिनः 'छादन' 'स्वभावतिरस्करणं यद् ‘इह' लोके तदिह ज्ञानावरणं कर्म भण्यते, तच्च 'पटोपम' भवति जीवस्य पटतुल्यम् / इति गाथार्थः // 10 // ज्ञानावरणस्य पटोपमामभिधाय साम्प्रतं यथा तज्जीवस्य 'च्छादनं भवति तथा दृष्टान्तेनाह-- ___ (पारमा०) शरदुद्गतशशिनिर्मलतरस्य 'जोवस्य च्छादन जीवस्वभावस्य नैर्मल्यस्य 20 तिरोधायकं यत्तद् ‘इह' लोके ज्ञानावरणं कर्म पटोपमं भवति / 'एवं' वक्ष्यमाणरीत्या / 'तुः' पुनरर्थे / इति गाथार्थः // 10 // ज्ञानावरणस्य पटौपम्यमुक्तम् / सम्प्रति पटस्यावारकत्वमभिधाय ज्ञानावरणे योजयति जह निम्मलावि चक्खू , पडेण केणावि छाइया संती। मंदं मंदतरागं, पिच्छइ सा निम्मला जइवि // 11 // तह मइसुयनाणाणं, ओहीमणकेवलाण आवरणं / जीवं निम्मलरूवं, आवरइ इमेहि भेएहि // 12 // 1 व्याख्याकारेण तु-"कम्माणं तह मुणेयव्वा" इत्येतत्पाठानुसारेण व्याख्यातम् / 2 'भावा' इत्यपि क्वचित् / 3 खोटकः, जे०। 4 हटिश्च जे / 5 च्छादकं जे० /