________________ गुणस्थानेष्वल्पबहुत्वं ग्रन्थसमाप्तिश्च [ 57 यावन्तः समयास्तावत्प्रमाणं मन्तव्यम् / इत्युक्तं गुणस्थानेषु जीवस्थानाद्यभिधेयपददशकम् / एवं च यथाप्रतिज्ञातं मूला-ऽदर्शितमप्यभिधेयजातमभिहितम् // 84-85|| संप्रति श्रोतृणामाशीर्वचनव्याजेन प्रकरणार्थसम्पूर्णतामाविष्कतु माहजिणवल्लहोवणीयं जिणवयणामयसमुद्दबिंदुमिमं / हियकंखिणो बुहजणा निसुणंतु गुणंतु जाणंतु // 86 // (यशो०) जिन एव = रागादिजेतैवोपचाराजिनाज्ञैव वा जिनः स वल्लभो यस्येति सान्वयजिनवल्लभाभिधानः प्रकरणकारस्तेनोपनीत = मितस्ततो विकीर्णानामर्थानामेकत्र मीलेनेन सामीप्येन प्रापितं जिनवचनमेव जरामरणादिक्लेशपरम्परापहारकारितया परैरलब्धमध्यतयाऽमृतसमुद्रस्य बिन्दुरतिस्तोकत्वसाधर्येण इममिति यदा प्रकरणवशाल्लब्धस्य प्रकरणस्येदमिति (इ)दमा परामर्शस्तदा प्रकरणस्य जिनवचनामृतसमुद्रबिन्दुत्वेन निरूपणम् / यदा त्वतिशयोक्तिभङ्गया-ऽस्य प्रकरणस्य जिनवचनामृतसमुद्रबिन्दुत्वेनाऽत्यन्ता-ऽभेदाध्यवसायस्तदेममिति जिनवचनामृतसमुद्रबिन्दोर्विशेषणम् / अनेन चागममूलता-ऽऽ विर्भावनपरेणास्य प्रकरणस्य विशेषेणोपादेयता प्रतिपादिताः। हितकाङ्क्षिण इति मोक्षाभिलाषिणो मोक्ष एच हि प्राणिनां परमार्थतो हितम् / हितकाङ्क्षिणश्च तत्वज्ञानशून्या अपि स्वबुद्ध्या भवन्तीत्याहबुधजनाः तत्त्वविदः नितरामुपविधव्यावधानपरतया श्रृण्वन्तु | परावर्त्तनं च पठनपूर्वकमिति पठन्त्विति सामर्थ्याद् गम्यते / तथा ज्ञानं तु संशयविपर्ययपराकरणद्वारेण निश्चिन्वन्तु / इह च प्रकरणमिदमीदृशमिति प्रवादाधिकसत्कौतुकास्तत्प्रथमं श्रृण्वन्ति / श्रवणे चा-ऽवधारितप्रकरणस्य परमोपादेयत्वात्पठित्वा परावर्त्तयन्ति / परावर्तेन प्रसादेन च सम्यग् जानन्तीति श्रवणादीनामेवं क्रमः // 86 // // इत्यागमिकवस्तुविचारसारप्रकरणं विवरणम् / / // अथ प्रशस्तिः // xशब्दैककारणतया-ऽद्भुतवैभवेन, सद्भावभूषिततया ध्रुवतानुवृत्त्या / पुष्णात्यखंडमिह यद्गमनेन संख्यं, चान्द्रं कुलं तदवनावविगीतमस्ति // 1 // X तत्रोदितः प्रतिदिनं स्मरमत्सरादि-दैतेय निर्दयविमर्दनकलिलोलः / विश्वेऽप्यधृष्यमहिमा सवितेव सूरिः, श्रीशीलभद्र इति विश्रुतनामधेयः॥२॥ बहुपरिभवातिदीना येन स्वात्मनि गुणाः सबहुमानं / न्यस्ताः सम्प्रतिकृतयुगमुनिविषयविवाददलनाय // 3 // 4 वसंततिलका। A आर्या।