________________ 56 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे क्षपकोपशमकभेदाभ्यां द्वैधं भवति तत्र ये क्षपकास्ते क्षीणमोहवत् पूर्वोक्तरीत्या शतपृथक्त्वमानाः / ये चोपशमकास्ते प्रागुनन्यायेनोपशान्तवत्संख्याताः / तथा योगिनःसयोगिकेवलिनोऽप्रमत्ता इतरे च प्रमत्ताः सूक्ष्मसम्परायादिभ्यः संख्यातगुणाः / अत्र सयोगिभ्यः परेणा-ऽप्रमत्तानामप्रमत्तेभ्यश्च प्रमत्तानामुपादानात्सयोगिभ्योऽप्रभत्तास्तेभ्यश्च प्रमत्ताः संख्यातगुणा इत्यनुक्तमपि दृश्यम् / अयं च न्याय उत्तरत्रापि वाच्यः / तत्र सयोगित्वं प्रतिपद्यमाना जघन्यत एकादया उत्कृष्टतोऽष्टोत्तरं शतम् / पूर्वप्रतिपन्ना जघन्यत उत्कृष्टतश्च कोटिपृथक्त्वमानाः। अप्रमत्तप्रमत्तास्तु प्रत्येक सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसंयमवत्वेन त्रिधा / तत्र सामायिक प्रतिपद्यमाना जघन्यत एकादय उत्कृष्टतः सहस्रपृथक्त्वमानाः। पूर्वप्रतिपन्ना जयन्यत उत्कृष्टतश्च कोटिसहस्रपृथक्त्वमानाः / तच्चात्र द्विवादिकोटीरूपमेवाऽवगम्यते, न तु नवकोटीरूपम् , सर्वसंयतानामेव कोटीसहस्त्रपृथक्त्वस्य श्रूयमाणत्वात् / च्छेदोपस्थापनीयवन्तश्च यदा भवन्ति तदा तत्प्रतिपद्यमाना जघन्यत एकादय उत्कृष्टतः शतपृथक्त्वमानाः / पूर्वप्रतिपन्ना उत्कृष्टतः कोटीशतपृथक्त्वमानाः। जघन्यतो प्येतावन्त एव भगवत्यामभिहिताः। एतच्च सम्यग्नावगम्यते / यतो दुषमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं च्छेदोपस्थापनीयवत्प्रमत्ता-ऽप्रमत्तद्वयस्य भावाद् विंशतिरेव श्रूयत इत्येके / प्रथमतीर्थकरतीर्थकालापेक्षमिदमित्यपरे / पारिहारिकविशुद्धिकवन्तो यदा स्युस्तदा तत्प्रतिपधमाना जघन्यत एकादय उत्कृष्टतः शतपृथक्त्वमानाः। पूर्वप्रतिपन्ना जघन्यत एकादय उत्कृष्टतः सहस्रपृथक्त्वमाना इति / यद्यप्येषामपि समानतैव तथाप्यप्रमत्तकालादन्तमुहर्त्तमात्रत्व साधयेऽपि प्रमत्तकालस्य बहुत्वादप्रमत्तेभ्यः प्रमत्ताः संख्यातगुणा उक्ताः / अप्रमत्तान्तमुहूर्ताऽपेक्षया हि प्रमत्तान्तमुहूर्तानि महान्तीति / तथा प्रमत्तेभ्यो देशविरतास्तेभ्यः सास्वादनसम्यग्दृशस्तेभ्यो मिश्रशस्तेभ्योऽप्यविरतसम्यग्दृश इति चत्वारोऽसंख्याताः। अविरतेभ्योऽयोगिकेवलिनस्तेभ्यश्च मिथ्यादृश इति द्वयेऽनन्ताः / ततः प्रमत्तेभ्यो देशविरता असंख्याताः, तिर्यप्रक्षेपात् / देशविरता हि नरास्तिर्यञ्चश्च / तत्र तिर्यश्चोऽसंख्याताः / सास्वादनास्तु कदाचिन्न भवन्ति, यदा तु भवन्ति, तदोत्कृष्टतो गतिचतुष्कसंभवित्वेन देशविरतेभ्योऽसंख्याताः। मिश्रा अपि कदाचिन्न भवन्ति, यदा तु भवन्ति, तदोत्कर्षतः सास्वादनेभ्योऽसंख्याताः स्युः / सास्वादनाद्धाया उत्कृष्टतो.ऽपि षडावलिकामानत्वेनाल्पकालिकत्वान्मिश्राद्धायास्तु जघन्तोऽप्यन्तमुहूर्तमानत्वेन बहुकालभावित्वात् / अविरतसम्यग्दृशस्तु सर्वदैव सास्वपि गतिषु प्राप्यन्त इति मिश्रदृष्टिभ्योऽऽसंख्याताः / अयोगिनस्तु भवस्थाः सिद्धाश्च तत्र सिद्धानामानन्त्यादविरते. भ्योऽनन्तगुणाः / मिथ्यादृष्टयपेक्षयाऽनन्ता अपि सिद्धा अनन्तभाग एव वतन्त इत्य-ऽयोगिभ्यो मिथ्यादृष्टयोऽनन्तगुणाः / आनन्त्यं चामीषामनन्तोत्सप्पिव्यवसर्पिणीषु