________________ गुणस्थानेपूदीरणास्थानान्यल्पबहुत्वञ्च दर्शनावरणान्तरायकर्माण्यनुदीरयन्नेन क्षपयत्यावलिकागतानामुदीरणाया असम्भवादिति / द्वे नाम गोत्राख्ये उदीरयति / योगी-सयोगिकेवली पुनद्वे एव नामगोत्रे उदीरयति / सयोगिकेवलिनो ज्ञानदर्शनावरणान्तरायमोहनीयानां क्षीणमोहत्वेन नोदीरणा, वेदनीयायुपोः पुनरुदीरणा प्रागेवोपरता / अयोगी अयोगिकेवली नोदीरयति, योगाभावात् / उदीरणा हि योगसव्यपेक्षा, यत एवं कस्यापि कर्मणो नोदीरकस्तत एव प्रत्यासन्नसनातनानन्दपरपरमपदसमृद्धिकत्वेन भगवानिति विशेषितः / 82-83 // अथ गुणस्थानेष्वेवाल्पबहुत्वमाहउबसन्तजिणा थोवा संखेजगुणा उ खीणमोहजिणा। सुहुमनियट्टनियट्टी तिन्नि वि तुल्ला विसेसहिया // 84 // जोगिअपमत्तइयरे संखगुणा देससासणा मिस्सा / अविरयअजागिमिच्छा असंखचउरो दुवेऽनन्ता // 85 // (यशो०) उपशान्तजिना = उपशान्तमोहाः क्षीणमोहापेक्षया स्तोकाः / तथा ह्यन्तमुहूर्तप्रमाणोपशमश्रेणिस्तस्यां च कदाचित्को-ऽपि न प्रविशति, तदन्तरकालस्योत्कर्षतो वर्षपृथक्त्वमानस्योक्तत्वात् , यदा तु प्रविशति तदेको द्वौ वा यावदुत्कर्षत एकसमये चतुःपञ्चाशत् / यथैकस्मिन्समयेषु युगपदुत्कृष्टतश्चतुःपञ्चाशत् प्रविशति, तथा परा-ऽपरेप्वपि समयेष्विति नानासमयप्रविष्टा अपि पञ्चदशस्वपि कर्मभूमिषु उत्कृष्टतः संख्याता एव भवन्ति / अथ कथमेवं यावतैकस्मिन्न यन्तमु हूतं समया असंख्याताः, तत्र यदि प्रतिसमयमेकेकोपि प्रविशति, तथाऽप्यन्तमुहू कालेऽसंख्याताः, किमुत चतुःपञ्चाशत्प्रवेशे / सत्यम् , किन्तु न प्रतिसमयमुपशमश्रेण्यां प्रविशन्ति, केचिदेव समयेषु तत्प्रवेशस्य समयेऽभ्यनुज्ञानात् / किञ्च गर्भजमनुष्या अपि संख्याताः सम्भवन्ति, किं पुनश्चारित्रिणः / क्षीणमोहजिनाः पुनः संख्यातगुणाः, पूर्वेभ्य इति गम्यम् , एवमुत्तस्त्रापि / तत्र क्षपकणिरप्यन्तमुहूर्तमाना, तस्यां च को-ऽपि कदाचिन्नाधिरोहतिः / तदन्तरालस्योस्कृष्टतः परमासमानत्वात् / यदा त्वधिरोहति तदेको द्वौ वा यावदुत्कृष्टत एकसमयेऽष्टोत्तरं शतम् / एवं च यथैकस्मिन्समयेऽष्टोत्तरं शतं तामधिरोहति, तथा-ऽपरेष्यपीति नानासमये-ऽधिरूढा उत्कृष्टतः शतएथक्त्वमानाः क्षीणमोहाः प्राप्यन्ते / क्षपकश्रेणिमपि न प्रतिसमयं अधिरोहन्ति, किन्तु केषुचिदेव समयेष्विति पूर्ववत् ना-ऽसंख्यात्वमाशङ्कनीयम् / यदनोपशान्तमोहेभ्यः क्षीणमोहानां संख्यातगुणत्वमुक्तम् , तद्यदैते द्वयेऽप्युत्कृष्टपदे लभ्यन्ते तदा द्रष्टव्यम् / अन्यथा कदाचित्क्षीणमोहाः स्तोका / उपशान्तमोहास्तु वहव इत्यपि भवति / सूक्ष्मसंपरायनिवृत्तिअनिवृत्तिबादरास्त्रयोऽपि प्रत्येकं पूर्वेभ्यो विशेषाधिकाः, स्वस्थाने तु तुल्याः / एते हि त्रयो-ऽपि