________________ 54 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे (यशो०) मिथ्यादृष्टेरारभ्य यावत्सूक्ष्मसम्परायास्तावदष्टावपि प्रकृतयः कर्मण्युदये सत्तायां च भवन्ति / "सत्त?"ति यथासंख्यमुदयसत्ताभ्यां योज्यते / तत उपशान्तगुणस्थाने सप्तकर्माण्युदये / उपशान्तमोहस्य हि मोहोदयो नास्त्युपशान्तमोहत्वादेव / शेषाणां तु सप्तानामप्युदयः / सत्तायां त्वष्टौ, उपशान्तस्य हि मोह उपशान्तो न क्षीण इति मोहनीयस्यापि सत्ता / क्षीणमोहे मोहनीयन्यूनाः सप्तोदये सत्तायां च / अस्य हि मोहनीयस्योदयवत्सत्तापि नास्ति, तस्य सर्वथा क्षीणत्वात् / चत्वार्यघातिकर्माणि वेदनीयायुर्नामगात्राख्यानि शेषयोः = सयोग्ययोगिनोरूदये सत्तायां च शेषाणां तु क्षय एव केवली भवतीति शेषाभावः // 8 // अथ तेष्वेवोदीरणास्थानानि योजयतिसत्तट्ट पमत्तता कम्मे उइरिन्ति अट्ठ मीमो उ / वेयणियाउ विणा छ उ अपमत्तअपुवअणियट्टी // 82 // सुहुमो छ पंच उइरेइ पंच उवसंतु पंच दो खीणो। जोगी उ नामगोए अजोगिअणुदीरणो भयवं // 83 // (यशो०) मिथ्यादृष्टयादयः प्रमतान्ताः सामर्थ्यान्मिश्रदृष्टिवर्जा अष्टौ सप्त वा कर्माण्युदीरयन्ति / तत्र यावदद्या-ऽप्येपामावलिकाशेषमात्मीयात्मीयमायुनं भवति तावदेते सर्वे-ऽपि सततमष्टौ कर्माण्युदीरयन्ति, सर्वेषामपि तदा तदुदीरणायोग्या-ऽध्यवसायस्य भावात् / आवलिकाशेषे त्वायुषि सप्तैवा-ऽऽयुर्वर्जितानि / आवलिकाशेषं ह्यायुरनुदीर्यमाणमेव वेद्यते, तत्स्वभावात् / एवमुत्तरत्रा-ऽपि विमर्शनीयम् / मिश्रदृष्टिरष्टावेव, तुशब्दस्यैवार्थस्य व्यवहितस्य योजितत्वात् , मिश्रदृष्टयायुषि आवलिकाशेषताया अभावात् / स ह्यन्तमुहर्ता-ऽवशेष एवायुषि मिश्रदृष्टित्वमपहाय सम्यर्दशनं मिथ्यात्वं वा नियमेनाऽऽसादयति / अप्रमत्ता-ऽपूर्व करणाऽनिवृत्तिवादरा विभक्तिलोपाद्वेदनीयायुभ्यां विना तच्छेपाणि षडुदीरयन्ति / तेषामपि विशुद्धत्वेन वेदनीयायुपोरूदीरणाप्रायोग्या-ऽध्यवसायाभावान्नोदीरणा / सूक्ष्मसम्परायाः प्रागुक्तानि षडुदीरयन्ति / तावद्यावन्मोहनीयमावलिकाशेपं न भवति / आवलिकाशेषे तु तस्मिन्पञ्चैवोदीरयति / तस्य तदा वेदनीयायुर्वन्मोहनीयस्या-ऽप्युदीरणा नास्तीत्यर्थः / उपशान्तमोहः पूर्ववत्पञ्चैवोदीरयति, तस्य हि मोहनीयोपशान्तत्वेनोदयाभावान्नोदीरणा / यदुक्तम्- “वेद्यमानमेवोदीर्यते" इति / वेदनीया-ऽऽयुषोः पुनरनुदीरणाकारणं प्राग्वत् / क्षीणमोहः पञ्च द्वे वा कर्मणी उदीरयति / तत्र यावत् ज्ञानावरणदर्शनावरणा-ऽन्तरायकाण्यावलिकाशेषाणि न भवन्ति तावत्पूर्वोक्तानि पञ्च / . तस्य हि क्षीणमोहनीयोदयाभावानोदीरणा, शेषं प्रागिव / यदा तु ज्ञानदर्शनावरणान्तरायकर्माणि केवलोत्पत्तिप्रत्यासत्ता ऽऽवलिकाशेषाणि स्युस्तदा द्वे एवोदीरयन्ति / तदा हि ज्ञान