________________ मूलप्रकृतयस्तथा तेषां बन्धोदयोदीरणासत्तास्थानान्योधे गुणस्थानकेषु च [53 - अर्थतेषां बन्धादिस्थानसंख्यामाह सत्तट्ठछेगबन्धा सन्तुदया अट्ट सत्त चत्तारि / सत्तट्ठछपंचदुगं तुदीरणाठाणसंखेयं // 79 // (यशो०) सप्ताष्टपडेकसंख्याश्चत्वारो बन्धा=बन्धस्थानानि / अष्टसप्तचतुःसंख्याऽङ्किताः प्रत्येकं सत्तोदयाः सत्तास्थानान्युदयस्थानानि चेत्यर्थः / सप्ताष्टषट्पञ्चद्विकरूपा पुनरूदीरणास्थानानामियं संख्या। इह च बन्धादीनां प्रत्येकमेकप्रकारत्वेऽपि सप्ताष्टादिकर्मापेक्षया सप्ताष्टादिसंख्यात्वम् / तदयमर्थोऽष्टानामायुर्वर्जानां तु सप्तानां मोहनीयायुःशेषाणां पण्णां वेदनीयस्यैकस्य कर्मणो बन्धः / तथाष्टानां मोहरहितानां तु सप्तानां वेदनीया-ऽऽयुर्नामगोत्राणां चतुर्णा प्रत्येकं सत्तोदये / तथाष्टानामायुर्वर्जितानां तु सप्तानां वेदनीयायुःशेषाणां पण्णां वेदनीयायुर्मोहरहितानां पञ्चानां द्वयोर्वा नामगोत्रयोरुदीरणेति // 76 / / अथैतेषां बन्धस्थानानि गुणस्थानेषु योजयति. अपमत्तंता सत्त? मीसअप्पुब्वबायरा सत्त / बन्धंति छ सुहुमा एगमुवरिमाऽवन्धगोऽजोगी॥८०॥ (यशो०) अप्रमत्तान्ता मिश्ररहिता मिथ्यादृष्टयादयः षट् , सप्तायुर्वर्जानि, आयुःसहितानि त्वष्टौ कर्माणि बध्नन्ति / आयुर्हि एकभवमध्य एकदैव बध्यत इति न सदा तद्वन्धः / मिश्रा-ऽपूकरणा-ऽनिवृत्तिबादरास्त्रयोऽपि सप्तैव बध्नन्ति / तथाहि-मिश्रदृष्टित्वे वर्तमानो न म्रियते, नाऽप्या-ऽऽयुर्वघ्नाति, तत्स्वभावत्वात् / अपूर्वकरणानिवृतिवादरी त्वतिविशुद्धत्वान्नायुर्वनीतः / सूक्ष्मसम्पराया मोहनीयायुःशेषाणि पड् बध्नन्ति। मोहनीयवन्धो हि बादरसम्परायहेतुकः / सूक्ष्मसम्परायाणां तु वादरसम्परायो नास्तीति मोहनीयवन्धाभावः / आयुर्वन्धाभावस्तु घोलनापरिणामाभावाद् ; आयुर्हि घोलनापरिणामनिर्वय॑म् / उपरितना = उपशान्तमोहक्षीणमोह-सयोगिकेवलिनो योगव्यापारादेकमेव सातात्मकं वेदनीयं बध्नन्ति, न शेपाणिः तद्वन्धः हेत्वभावात् / अयोगिकेवली पुनरबन्धकः, योगव्यापारस्या-ऽप्यभावात् // 80 // _ अथ गुणस्थानेष्वेव उदयस्थानानि लाघवार्थ तत्समानसंख्याकानि सत्तास्थाननि च युगपद्योजयति जा सुहुमो ता अट्ट वि उदये संते य हुन्ति पयडीओ। सप्तऽट्ठ व संते खीणि सत्त चत्तारि सेसेसु // 1 // 1 “होंति' इत्यपि पाठः /