________________ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे बावीसाउ अपुव्वे वेउव्वाहारविरहिया होइ / अनियट्टीए सोलस हासच्छक्केण रहियाओ॥६॥ सहमे दसगं जाणम तिवेयतिकसायविरहियं काउं। उवसंते खीणे उण जोगा नव बन्धडे उम्मि / / 7 / / सज्जोगिकेवलम्मि सच्चमसच्चामुसा वइमणो य / उरलं कमणमिस्सा जोगा सत्तेव बन्धस्स // 8 // " अधुना येषामेते बन्धहेतवस्तेषां कर्मणां बन्धोदयोदीरणासत्ता गुणस्थानेषु चिन्तयितुकामः संख्याविशेषितानि सहेतुकानि तावत्तान्याह तो नाणदंसणावरणवेयणीयाणि मोहणिज्जं च / आउयनामं गोयंतरायमिय अट्ठ कम्माणि / / 78 // (यशो०) "तो"इति तेभ्यो मिथ्यात्वादिभ्यो हेतुभ्यः सकाशात् ज्ञानावरणादीनि अन्तरायान्तानि काण्यष्टौ मूलभेदा-ऽपेक्षया भवन्तीति शेष इति समुदायार्थः / अवयार्थस्त्वयम्-ज्ञानं पूर्वोक्तस्वरूपं मत्यादि, दर्शनं च चक्षुर्दर्शनादि, तयोरावरणे आवरणस्वभावे ज्ञानावरणं दर्शनावरणं चेत्यर्थः / आरोग्यविषयोपभोगादिजनितेनाल्हादात्मकत्वात्सुखरूपेणानारोग्यादिजनितेनानाल्हादात्मकदुःखरूपेण च विपाकेन वेद्यत इति वेदनीयम् / मुहयन्ति-सत्कृत्येभ्यः पराङ्मुखा भवन्तीति मोहनीयम् / आयाति भवाद् भवान्तरे संक्रामतां जन्तूनां निश्चयेनोदयमित्यायुः / यद्वाऽनुभू [य](त)मेति, अनुभूतं च [जा](या)तीत्यायुः / यद्यपि च सर्व कमवंभूतमेव तथापि पङ्कजादिशब्दवद् रूढिविषयत्वादायुःशब्देन पश्चममेव कर्माभिधीयते / व्युत्पत्तिद्वये-ऽप्या-ऽऽयुरितिशब्दसिद्धिनैरूक्ती। नमयति-परिणमयति संसारिणं गत्यादिभिः पर्यायैरिति नाम / यद्वा सुरो ऽयं नरोऽयमित्यादिकं नाम यद्वशाजन्तुराशादयति तत्काप्युपचारान्नाम / गूयते-संशब्द्यते प्रधाना-प्रधानरूपतया तेनोच्चैर्नीचैः कुलोत्पत्त्यादिलक्षणेन पर्यायेणेति गोत्रं, तादृशविपाकवेद्यं कापि गोत्रम् / आत्मानं चार्थसाधनं चान्तरायते-पततीत्यन्तरायं लिङ्गानुशासनेऽन्तरायशब्दस्य पुस्त्वे-ऽप्यागमेषु नपुसकत्वं दृश्यते / जीवस्य दानादिकम) सिसाधयिषोविध्नीभूयान्तरापततीत्यर्थः / भेदास्त्वेषां ज्ञानावरणादीनां प्रस्तुतानुपयोगित्वान्न प्रपञ्चिताः / इह च ज्ञानदर्शनस्वभावत्वेन आत्मनो ज्ञानदर्शन एवान्तरङ्गे इत्यादौ तदावरणोपादानम् , तुल्येपि च तयोरन्तरङ्गत्वे ज्ञानमेव विशेषांशग्राहित्वेन विशिष्टार्थक्षममिति ज्ञानावरणमादावुपादायि। ततो दर्शनावरणम् / एतयोश्च व्यवस्थितिकत्वेनैतदनंतरं वेदनीयम् / इष्टानिष्टविषया-ऽपितसुखदुःखरूपे च वेदनीये सति जीवः सत्कृत्येषु मुह्यतीत्यतोऽनन्तरं मोहरूपं मोहनीयम् / तदप्यायुपि सति भवतीत्यतः पृष्ठत आयुः / नराधायुःसहितश्च जन्तुर्नरकगत्यादिपर्यायानासादयतीत्वतः प्राग्नरकगत्यादिपर्यायपरिणमनरूपं नाम / नाम्ना च लब्धनरकगत्यादिपर्याय 'उच्चैर्गोत्रवतोऽपिजन्तोर्दानादिकमर्थं सिसाधयिषोर्यद्विघ्नः सम्पद्यते तदन्तरायकर्ममाहात्म्यमिति ज्ञापनाय गोत्रानन्तरमन्तरायमुक्तम् // 78|| 1 "उच्चावच्चैगूयते इति ततो गोत्रम् / " इत्यादिभावात्मकः पाठोऽत्र लुप्तः सम्भाव्यते /