________________ बन्धहेतव अंधे गुणस्थानेषु च [ 51 (यशो०) नत्वयोगिनीति वचनात्पश्चपञ्चाशदादिसंख्याऽवच्छिन्नाः क्रमेण मिथ्यादृष्ट्यादिषु बन्धहेतवो भवन्तीति शेषः / “तियछहिएचत्ते"ति त्रिचत्वारिंशत्षट् वत्वारिंशदित्यर्थः / “छचउद्गवीसे"तिपड्विंशतिश्चतुविंशतिविंशतिरित्यर्थः / तत्र मिथ्यादृष्टेः संयमाभावेना-ऽऽहारकद्वयाऽभावाच्छेपा पञ्चपञ्च शत् / पञ्चपञ्चाशतश्च मध्यान्मिथ्यात्वपञ्चकोत्सारणेन सास्वादनस्य पञ्चाशत् / पश्चाशतश्च मध्यान्मिश्रत्वे कालकरणाभावेन कार्मणौदारिकमिश्र-वैक्रियमिश्ररूपयोगत्रया-पगमेऽनन्तानुबन्धिनां च निषिद्धत्वेनाऽनन्तानुबन्धिचतुष्टयोत्सारणेषु मिश्रष्टेस्च्यधिका चत्वारिंशत् / त्रिचत्वारिंशतः कालकरणसम्भवेन कामेणौदारिकमिश्रवैक्रियमिश्रात्मकयोगत्रिके प्रक्षिप्तेऽविरतसम्यग्दृष्टेः पड्भिरधिका चत्वारिंशत् / षट्चत्वारिंशतश्चा-ऽप्रत्याख्यानावरणोदये विग्रहगतावपर्याप्तदशायां च देशविरतेरभावादप्रत्याख्यानावरणचतुष्कस्य कामणौदारिकमिश्रयोगद्वयस्य चोत्सारण आरम्भजत्रसाऽविरत्यविवक्षया संकल्पजत्रसा-ऽविरतेर्निवृत्त्या त्रसा-ऽविरतौ चापनीतायां देशविरतस्यैकोनचत्वारिंशत् / एकोनचत्वारिंशतश्च मध्यात् प्रत्यानावरणोदयस्या-ऽविरतेश्व सर्व विरतेः प्रतिपन्थित्वादेकादशभेदा-विरति प्रत्याख्यानावरणचतुष्का-ऽपनयने संयमप्रत्ययकत्वादाहारकलब्धेराहारकद्विकप्रक्षेपे च प्रमत्तसंयतस्य षड्विंशतिः / तस्याश्च मध्यात्पूर्वोक्तयुक्त्या वेक्रियमिश्रा-ऽऽहारकमिश्रद्वये-ऽफ्नीते ऽप्रमत्तसंयतस्य चतुर्विंशतिः / चतुर्विशतेमध्यादपूर्वकरणस्यातिविशुद्धत्वादा-ऽऽहारकवैक्रियापसारणे द्वाविंशतिः / द्वाविंशतेमध्यादपूर्वकरण एव व्यवच्छिन्नस्य हास्यादिषट्कस्यापगमे निवृत्तिवादरस्य षोडश / एतच्च यावदद्या-ऽप्यऽसौ वेदत्रयं क्रोधमानमायारूपं संज्वलनत्रयं च न क्षपयति तावद् द्रष्टव्यम् / तत्क्षये तु यथासम्भवं वाच्यम् / पोडशानां च मध्यादनिवृत्तिवादर एव व्यवच्छिन्नयोर्वेदत्रिकसंज्वलनक्रोधादित्रिकयोरपसारणे सूक्ष्मसम्परायस्य * दश / दशभ्यो लोभल्योपशान्तत्वेनोत्सारण उपशान्तमोहस्य नव / क्षीगत्वेन लोभस्यापनयने क्षीणमोहस्य नव। नवभ्यो मृपामिश्रात्मकयोर्मनोद्वय-वागद्वययोग्पनयने कार्मणौदारिकमिश्रयोः प्रक्षेपे च सयोगिनः सप्त हेतवः कर्मबन्धस्येति गम्यम् / एषामपि सप्तानामभावान्न तु = नैवाऽयोगिनो बन्धहेतवः / कलिकालानुचितसमाचाराधारपरमाराध्यास्मद्गुरुश्रोशीलभद्र मूरिविरचिताः "पण न्ने" तिगाथाव्याख्यारूपास्त्विमा गाथाः / पणपन्नबन्धहेऊ मिच्छद्दिविश्स उदयओ होन्ति | आहारगदुगरहिया जेणं तं संजयम्स सवे // 1 // पन्नासा (सा)सायणि पंचगमिच्छत्तविरहिया होइ / मिस्से पुण तेयाला अण कम्मणमिस्सदुगरहिया / / 2 / / तुरियंमि उ छायाला कम्मणमिस्सदुगसंजुया जाण / एगूणचत्त देसे बीयकसायाण भावाओ // 3 // अविरयउरलगमिस्सं कंमइगं जेण तस्थ नो सत्त / छब्बीसा य पमत्ते संजलणा नोकसाया य / / कंमणउरालमिस्सं बज्जित्ता सव्वजोगसम्भावा / चस्वीसं अपमत्ते वेउवाहारमिस्सविणा // 5 //